Enter your Email Address to subscribe to our newsletters

अन्ताराष्ट्रिय–सूरजकुण्ड–शिल्प–मेलापके पर्यटन–मन्त्रिणः उपस्थिति:
फरीदाबादनगरम्, १० फेब्रुवरीमासः (हि.स.)। हरियाणादेशस्य पर्यटन–मन्त्री डॉ.अरविन्द–कुमार–शर्मा अवदत् यत् एषः मेलापक: केवलं कला–संस्कृतेः उत्सवः न, किन्तु राष्ट्रस्य शिल्पकाराणां, कलाकाराणां, हस्तशिल्प–व्यवसायिनां च अन्ताराष्ट्रिय–ख्यातिं तथा अवसरं प्रददातुं सशक्तं मञ्चम् अस्ति।
मन्त्री शर्मा सोमवासरे सायं अन्ताराष्ट्रिय–सूरजकुण्ड–शिल्प–मेलानिर्वाह–चौपाले उपस्थितजनानां समक्षं भाषणं कृत्वा अवदत् यत् एषः मेला वर्षात् १९८७ आरभ्य निरन्तरं आयोज्यते। अद्य च प्रधानमन्त्री श्रीनरेन्द्रमोदी–निर्दिष्ट–विकसित–भारत–२०४७–संकल्पस्य तथा मुख्यमन्त्री नायब–सिंह–सैनी–नेतृत्वस्य अधीने मेलापके भव्यताः, सौन्दर्यम्, अन्ताराष्ट्रिय–ख्यातिश्च प्रतिदिनं वर्द्धमानं अभवत्।
मन्त्री डॉ.शर्मा पूर्वमेलापके घटितां दुर्भाग्यपूर्णां दुःखद–सङ्घटन–दुर्घटनां स्मृत्वा अवदत् यत् प्रशासनस्य, आरक्षिण:, पर्यटन–प्राधिकरणस्य, तथा जनपद–प्रशासनस्य तत्परता–सहकार्येण त्वरितं स्थिति–नियन्त्रणं कृतम्, यतः कोऽपि नागरिकः हानि–ग्रस्तः न अभवत्। स: वीर–आरक्षिण: जगदीश–प्रसादस्य साहसं बलिदानं च नतवान्, यः स्वप्राण–आहुतिं कृत्वा बहूनां जीवनरक्षणं कृतवान्, यं प्रदेशः नित्यम् स्मर्तुं इच्छति।
मन्त्री अवदत् यत् एषः अन्ताराष्ट्रिय–शिल्प–मेलापक: शिल्पकाराणां, कलाकाराणां, हस्तशिल्प–व्यवसायिनां च एक्स्पोजर–प्लेटफॉर्म अस्ति। स: अवदत् यत् गतवर्षे ४४ राष्ट्राणि सहभागं कृतवन्तः, अद्य च ५० अधिक–राष्ट्राणां सहभागिता अस्मिन् मेलापके वैश्विक–ख्यातिं वृद्धिं दर्शयति। स: विश्वासेन व्यक्तवान् यत् विकसित–भारत–निर्माणे सूरजकुण्ड–शिल्प–मेलापक: विशेषं योगदानं करिष्यति, यतः एषः मेलापक: स्वदेशी–कला, संस्कृति:, आत्मनिर्भर–भारत–भावनां च दृढयति।
मन्त्री डॉ.शर्मा मुख्यमन्त्रिण: नायब–सिंह–सैनी–प्रतिनिधित्वेन आगंतुकान् सर्वान् प्रति आभारं व्यक्तवान्। स: अवदत् यत् मेलापकं आगत्य पर्यटकाः केवलं आनंदं न गृह्णीयुः, किन्तु शिल्पकारेभ्यः किंचित् अपि क्रयणमपि कुर्यु:। एतेन स्थानीय–कलाकाराणां तथा कारीगाराणां मनोबलं वृद्धिं प्राप्स्यति तथा तेषां आजीविकायाम् दृढता भविष्यति।
कार्यक्रमस्य अन्ते मन्त्री डॉ.शर्मा सुप्रसिद्ध–शिवभक्त–गायकं कैलाश–खेरं विशेषतः आभारपूर्वकं स्मृत्वा अवदत् यत् हरियाणां प्रति तस्य विशेष–प्रेम्णा सः सूरजकुण्ड–शिल्प–मेलापकाय शीघ्रं स्वीकृतिं प्रदत्तवान्। स: अवदत् यत् कैलाश–खेर-सदृशकलाकाराणां उपस्थितिः मेलापके गरिमामयमाकर्षणं च वर्द्धयति।
हिन्दुस्थान समाचार / अंशु गुप्ता