Enter your Email Address to subscribe to our newsletters

मुंबई,10फरवरीमासः ( हि.स.) ।
राज्यस्य १५० दिवसात्मकस्य ई गवर्नन्स सुधारकार्यक्रमस्य अन्तर्गतं २६ जनवरी २०२६ दिनाङ्के ते शासकीयकार्यालयाः चयनिताः, यैः कार्यालयस्य जालपुटम्, आपले सर्वकार प्रणाली, ई कार्यालय व्यवस्था, कार्यालय डैशबोर्ड, व्हाट्सएप संवादयन्त्रं, शासकीयकार्येषु कृत्रिमबुद्धेः एआइ तथा ब्लॉकचेन तन्त्रज्ञानस्य उपयोगः, एवं जीआइएस भूस्थानिकतन्त्रस्य प्रयोगः इत्यादिषु सप्त प्रमुखविषयेषु उत्कृष्टं कार्यं कृतम्।
उल्लेखनीयम् अस्ति यत् निर्वाचनाचारसंहितायाः कारणेन स्थगितानि जिलापरिषद् कार्यालयसंवर्गस्य परिणामाः अद्य घोषिताः भवन्ति।
मुख्यमन्त्री देवेंद्र फडणवीस महोदयेन १५० दिवसात्मकस्य ई गवर्नन्स कार्यक्रमे उत्कृष्टकार्यस्य कृते ठाणे, पुणे, सांगली, नागपुर तथा नासिक जिलापरिषदां मुख्यकार्यकारी अधिकाऱिणः तेषां दलानि च हृदयपूर्वकं अभिनन्दितानि।
सर्वे विजेतारः शीघ्रमेव राज्यसरकारेण सम्मानिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार