हरियाणा नेशनल चैंपियनशृंखलायां 100मीटरधावने ठाणेजिल्लायाः मयूरेशाय स्वर्णपदकम्
मुंबई, 10फरवरीमासः ( हि.स.) । ठाणेनगरस्य मयूरेशः कोटियनो दृढसंकल्पेन कठिनपरिश्रमेण आत्मविश्वासेन च विशेष राष्ट्रियक्रीडास्पर्धायां सुवर्णपदकं जित्वा इतिहासं निर्मितवान्। फरवरीमासस्य १ तः ७ दिनाङ्कपर्यन्तं हरियाणाराज्ये आयोजितायां राष्ट्रियस्पर्धा
Mayuresh from Thane won gold medal in 100m race


Mayuresh from Thane won gold medal in 100m race


मुंबई, 10फरवरीमासः ( हि.स.) ।

ठाणेनगरस्य मयूरेशः कोटियनो दृढसंकल्पेन कठिनपरिश्रमेण आत्मविश्वासेन च विशेष राष्ट्रियक्रीडास्पर्धायां सुवर्णपदकं जित्वा इतिहासं निर्मितवान्। फरवरीमासस्य १ तः ७ दिनाङ्कपर्यन्तं हरियाणाराज्ये आयोजितायां राष्ट्रियस्पर्धायां सः शतमिटर धावनस्पर्धायां सुवर्णपदकं लब्धवान्, तथा भल्लक्षेपणे कांस्यपदकं प्राप्य स्वस्य सर्वाङ्गीणकौशलं प्रदर्शितवान्।

स्पेशल ओलम्पिक्स इण्डिया संस्थया आयोजिते अस्मिन् प्रतियोगितायां देशस्य विभिन्नप्रदेशेभ्यः आगताः क्रीडकाः आसन्। तेषां मध्ये मयूरेशेन प्रदर्शितं अनुशासनं धैर्यं संघर्षशक्तिश्च केवलं पदकप्राप्तौ एव सीमितं न आसीत्, अपितु मानवशक्तेः असीमसामर्थ्यस्य दृढसन्देशं अपि दत्तवान्। विविधविघ्नान् अतिक्रम्य राष्ट्रियस्तरे प्रथमस्थानप्राप्तिः तस्य कृते केवलं व्यक्तिगतसफलता न, किन्तु सामाजिकप्रेरणायाः महानुदाहरणम् अभवत्।

अस्याः उज्ज्वलसफलतायाः रहस्यं सतताभ्यासः सम्यक् मार्गदर्शनं संस्थायाः दृढसमर्थनं च अस्ति। मयूरेशः मधुशाला NASEOH इति संस्थायां प्रशिक्षणं प्राप्नोति, यस्य कार्यं समाजाय प्रेरणादायकं वर्तते। कार्यकारी सचिवः तथा महासंचालकः योगेन्द्रः शेट्टी, शिक्षकः राजेन्द्रः जगताप, प्रशिक्षकः दत्ता चव्हाण च तस्य प्रतिभायां विश्वासं कृत्वा तां विकसितवन्तः। अनुशासिताभ्यासेन आत्मविश्वासवर्धकेन मार्गदर्शनेन निरन्तरपरिश्रमेण च सः राष्ट्रियस्तरे प्रकाशमानः अभवत्।

अस्याः सफलतायाः प्रभावेन न केवलं मयूरेशस्य मनसि, अपितु अनेकानां क्रीडकानां मनसि अपि नूतना आशा जागृता। एषा सिद्धिः पुनः प्रमाणयति यत् यदि सम्यक् अवसरः मार्गदर्शनं समर्थनं च लभ्यते, तर्हि एते क्रीडकाः न केवलं राष्ट्रियस्तरे, अपितु अन्तर्राष्ट्रीयस्तरे अपि भारतस्य यशः वर्धयितुं समर्थाः भवन्ति।

---------------

हिन्दुस्थान समाचार