एफआईएच मेंस प्रो लीग 2025–26: राउरकेलायां सोत्साहं शुभारंभस्य आशायां भारतम्
नवदिल्ली, 10 फ़रवरीमासः(हि.स.)। भारतीय-पुरुष-हॉकी-दलं एफआईएच् मेन्स् प्रो-लीग् २०२५–२६ इत्यस्य अभियानस्य आरम्भं स्वदेशीय-भूमौ राउरकेला-चरणात् कर्तुं सज्जः अस्ति। १० तः १५ फरवरी २०२६ पर्यन्तं ओडिशा-राज्यस्य बिरसा-मुण्डा-हॉकी-स्टेडियम् मध्ये अस्मिन्
भारतीय पुरुष हॉकी टीम


नवदिल्ली, 10 फ़रवरीमासः(हि.स.)।

भारतीय-पुरुष-हॉकी-दलं एफआईएच् मेन्स् प्रो-लीग् २०२५–२६ इत्यस्य अभियानस्य आरम्भं स्वदेशीय-भूमौ राउरकेला-चरणात् कर्तुं सज्जः अस्ति। १० तः १५ फरवरी २०२६ पर्यन्तं ओडिशा-राज्यस्य बिरसा-मुण्डा-हॉकी-स्टेडियम् मध्ये अस्मिन् चरणे भारतस्य सामना हॉकी-क्रीडायाः द्वाभ्यां प्रख्याताभ्यां दलाभ्याम् — बेल्जियम् तथा अर्जेण्टीना — भविष्यति, येन प्रतियोगितायाः आरम्भः अत्यन्तं रोमाञ्चकः भविष्यतीति अपेक्षा अस्ति।

गतसत्रे अष्टम-स्थानं प्राप्तवान् भारतीय-दलम् अस्मिन् समये स्वदेशीय-दर्शकाणां समक्षं विजयेन सह अभियानस्य शुभारम्भं कृत्वा प्रारम्भिक-श्रेष्ठतां प्राप्तुं यतिष्यते। अनुभवस्य युव-प्रतिभायाः च संतुलित-संयोगेन युक्तः दलः परिचित-परिस्थितीनां पूर्णं लाभं ग्रहीतुं प्रयतिष्यते, किन्तु प्रतिपक्षे विश्वस्य शीर्ष-क्रमाङ्कित-दलाः सन्ति इति कारणात् आह्वानं न सुलभं भविष्यति।

यद्यपि भारतः स्वाभियानस्य आरम्भं कर्तुं सज्जः अस्ति, तथापि बेल्जियम् तथा अर्जेण्टीना पूर्वमेव लीगे उत्तमं प्रारम्भं कृतवन्तौ। अर्जेण्टीना चत्वारिषु क्रीडासु त्रयः नियमित-विजयाः तथा एकः शूटआउट-विजयः इति एकादश-अङ्कैः द्वितीय-स्थाने अस्ति। बेल्जियम् अपि चत्वारिषु स्पर्धासु त्रयः नियमित-विजयाः एकः शूटआउट-पराजयः च इति दश-अङ्कैः तृतीय-स्थाने विराजते।

भारतीय-दलं ११ फरवरी दिने बेल्जियम्-विरुद्धं स्व-अभियानस्य आरम्भं करिष्यति। अनन्तरं १२ फरवरी दिने अर्जेण्टीना-दलेन सह प्रतिस्पर्धा भविष्यति। १४ फरवरी दिने पुनः बेल्जियम्-विरुद्धं क्रीडा भविष्यति, १५ फरवरी दिने अर्जेण्टीना-विरुद्धेन अन्तिम-स्पर्धया राउरकेला-चरणस्य समापनं भविष्यति। सर्वे अपि क्रीडाः भारतीय-समयानुसारं सायं ७:३० वादने आरभ्यन्ते।

आकडानुसारं दृष्टे बेल्जियम्-दलस्य भारत-विरुद्धं पलडा अधिकः दृश्यते। २०१३ वर्षात् परं उभयोः मध्ये ३५ क्रीडाः अभवन्, तासु बेल्जियम् २२ विजयाः, भारतः ११ विजयाः प्राप्तवान्, द्वे क्रीडे समत्वेन समाप्ते। अर्जेण्टीना-विरुद्धं तु भारतस्य अभिलेखः उत्तमः अस्ति। २०१३ तः अद्यपर्यन्तं १९ क्रीडाः अभवन्, तासु भारतः १० विजयाः, अर्जेण्टीना ७ विजयाः प्राप्तवन्तौ, द्वे समे अभवताम्।

प्रथम-क्रीडायाः पूर्वं भारतीय-कप्तानः हरमनप्रीत-सिंहः अवदत् — “अमनदीप-लाकड़ा, मनमीत-सिंहः तथा रोसन-कुजूर इत्येते युवा-क्रीडकाः दले अवसरं प्राप्तवन्तः इति मम अत्यन्तं हर्षः। ते हालि हीरो-हॉकी-इण्डिया-लीग् मध्ये उत्कृष्टं प्रदर्शनं कृतवन्तः, अधुना अन्ताराष्ट्रिय-स्तरे स्वप्रतिभां प्रमाणयितुं एषः सम्यक् समयः अस्ति। दलः पूर्णतया स्वस्थः, प्रेरितः उत्साहितः च अस्ति।”

बेल्जियम्-दलस्य कप्तानः आर्थर् वान् डोरेन् अपि अवदत् यत् हीरो-हॉकी-इण्डिया-लीग् मध्ये क्रीडनस्य अनुभवः तेषां दलस्य कृते अत्यन्तं लाभदायकः अभवत्। भारतदेशे शीघ्रं आगत्य अभ्यासेन परिस्थितिषु स्वानुकूलनं कर्तुं साहाय्यं जातम् इति सः उक्तवान्।

उत्साहपूर्णैः स्वदेशीय-दर्शकैः समर्थितः भारतीय-दलः राउरकेला-नगरे दृढ-प्रारम्भं कृत्वा एफआईएच् प्रो-लीग् २०२५–२६ अभियानं सम्यक् दिशि नेतुं दृढ-संकल्पेन क्रीडांगणं प्रवेक्ष्यति।

---------------

हिन्दुस्थान समाचार