बांदायां 10 कोटिरूप्यकमितेन व्ययेन योगीसर्वकारः कारयति प्रमुखचतुष्पथां  सुंदरीकरणम्
बांदा, 10 फ़रवरीमासः (हि.स.)। उत्तरप्रदेशस्य बांदा-जिलायां प्रमुख-चतुष्पथां विस्तारीकरण-कार्यं प्रचलति। अस्य सम्बन्धे स्लिप-रोड-रोटरी-निर्माणं तथा सुरक्षा-सम्बद्धानि कार्याणि क्रियन्ते। प्रायः दश-कोटि-रूप्यकाधिक-व्ययेन योगी-सरकारेण एतेषां चतुष्पथा
सुंदरीकरण कार्य


बांदा, 10 फ़रवरीमासः (हि.स.)।

उत्तरप्रदेशस्य बांदा-जिलायां प्रमुख-चतुष्पथां विस्तारीकरण-कार्यं प्रचलति। अस्य सम्बन्धे स्लिप-रोड-रोटरी-निर्माणं तथा सुरक्षा-सम्बद्धानि कार्याणि क्रियन्ते। प्रायः दश-कोटि-रूप्यकाधिक-व्ययेन योगी-सरकारेण एतेषां चतुष्पथानां विस्तारीकरणं कृत्वा जनानां कृते सुरक्षित-यातायात-व्यवस्था प्रदीयते।

तथा च मार्ग-सुरक्षां दृष्ट्वा चतुष्पथेषु ब्रेकर्, डिवाइडर् तथा अन्य-सुरक्षा-मानकानां स्थापनार्थं कार्याणि सम्पाद्यन्ते।

नगरस्य महोखर-बाईपास-चतुष्पथः, महाराज-खेतसिंह-खङ्गार-चतुष्पथः, अतर्रा-रोड्-बाईपास-चतुष्पथः तथा बांदा-नरैनी-बाईपास-चतुष्पथः इत्येषु स्थानेषु लोकनिर्माण-विभागेन तीव्रगत्या कार्यं क्रियते। आगामिषु केषुचित् मासेषु एते चतुष्पथाः पूर्णतया सिद्धाः भविष्यन्ति, येन जनानां गमनागमनं सुगमं भविष्यति।

बांदा-बाईपासस्य महोखर-चतुष्पथे विस्तारीकरणार्थं स्लिप-रोड-रोटरी-निर्माणं तथा मार्ग-सुरक्षा-कार्यं द्वि-कोटि त्र्यशीति-लक्ष-रूप्यक-व्ययेन क्रियते, अस्य च कार्यस्य त्र्यशीति-प्रतिशतं सम्पन्नम् अस्ति।

तथैव खेतसिंह-खङ्गार-चतुष्पथे अपि द्वि-कोटि त्र्यशीति-लक्ष-रूप्यक-व्ययेन विस्तारीकरणं क्रियते, यत्र पञ्चाशीत्यधिक-प्रतिशतं कार्यं सम्पन्नम्।

बांदा-नरैनी-मार्गस्य बांदा-बाईपास-मार्गस्य च त्रिपथे विस्तारीकरणार्थं स्लिप-रोड-रोटरी-निर्माणं मार्ग-सुरक्षा-कार्यं च एक-कोटि षट्चत्वारिंशत्-लक्ष-रूप्यक-व्ययेन क्रियते, अस्य अपि पञ्चाशीत्यधिक-प्रतिशतं कार्यं सम्पन्नम्।

अतर्रा-रोड्-बाईपास-चतुष्पथे अपि द्वि-कोटि अष्टानवतिलक्ष-रूप्यक-व्ययेन विस्तारीकरण-कार्यं क्रियते, प्रायः नवति-प्रतिशतं कार्यं सम्पन्नम्। एतानि सर्वाणि कार्याणि मार्च-मासे समाप्तुं लक्ष्यं निर्धारितम् अस्ति, अतः तीव्रगत्या कार्यं प्रवर्तते।

लोकनिर्माण-विभागस्य अधिशासी-अभियन्ता मनोजकुमार-पाण्डेयः मङ्गलवासरे उक्तवान् यत् बांदा-नगरस्य प्रमुख-चतुष्पथेषु विस्तारीकरण-कार्यं शासन-स्तरेण क्रियते। मार्ग-सुरक्षां विशेषतया मनसि निधाय एतानि सर्वाणि कार्याणि क्रियन्ते, येन मार्ग-दुर्घटनानां न्यूनीकरणं भवेत् तथा जनानां गमनागमनं अधिकं सुरक्षितं स्यात्।

---------------

हिन्दुस्थान समाचार