महाराष्ट्रस्य उपमुख्यमन्त्री सुनेत्रापवारः स्वीयं कार्यभारं स्वीकृतवती
मुम्बईनगरम्, १० फेब्रुवरीमासः (हि.स.)। महाराष्ट्रस्य उपमुख्यमन्त्री सुनेत्रापवारः मङ्गलवासरे मन्त्रालयं गत्वा मन्त्री-पदस्य कार्यभारं स्वीकृतवती। पदभार-स्वीकारानन्तरं सा अवदत् यत् अजित-पवारस्य कृतानि कार्याणि सा अग्रे नेष्यति। अस्मिन् अवसरे राष्ट्र
फोटो: उपमुख्यमंत्री का पदभार ग्रहण करते हुए सुनेत्रा अजीत पवार


मुम्बईनगरम्, १० फेब्रुवरीमासः (हि.स.)। महाराष्ट्रस्य उपमुख्यमन्त्री सुनेत्रापवारः मङ्गलवासरे मन्त्रालयं गत्वा मन्त्री-पदस्य कार्यभारं स्वीकृतवती। पदभार-स्वीकारानन्तरं सा अवदत् यत् अजित-पवारस्य कृतानि कार्याणि सा अग्रे नेष्यति। अस्मिन् अवसरे राष्ट्रवादी-काँग्रेस-दलस्य (ए.पी.) कार्यकारी-अध्यक्षः प्रफुल्ल-पटेलः, प्रदेश-राकांपा-अध्यक्षः सुनील-तटकरे च उपस्थितौ आस्ताम्।

सुनेत्रापवारः अद्य प्रातः सर्वप्रथमं प्रभादेवी-स्थितं सिद्धिविनायक-मन्दिरं गतवती, तत्र भगवतः गणेशस्य दर्शनं कृतवती। तदनन्तरं दादर-स्थिते चैत्यभूमौ गत्वा भारतीय-संविधानस्य निर्माता डॉ.बाबासाहेब-आम्बेडकरं नमनं कृतवती। अनन्तरं सा मन्त्रालयं प्राप्य भूतले स्थितान् छत्रपति-शिवाजी-महाराजं, महात्मा-फुले तथा सावित्री-फुले नमनं कृतवती। ततः पश्चात् मन्त्रालयस्य षष्ठ-तले स्थिते उपमुख्यमन्त्री-कार्यालये गत्वा उपमुख्यमन्त्री-पदस्य कार्यभारं स्वीकृतवती। अद्य पदभार-स्वीकारानन्तरं सा प्रथम-कैबिनेट्-समावेशे सहभागं करिष्यति, यत्र स्वविभागस्य प्रथम-निर्णयान् ग्रहीतुं शक्नोति। अद्य सायंकाले सा दिल्ली-नगरं प्रति प्रस्थानं करिष्यति, यत्र तस्याः प्रधानमन्त्रिणा नरेन्द्रमोदिना तथा गृह-मन्त्रिणा अमित-शाहेन सह साक्षात्कारस्य सम्भावना वर्तते।

उल्लेखनीयं यत् पूर्व-उपमुख्यमन्त्री अजित-पवारः २८ जनवरी-दिने विमान-दुर्घटनायां निधनं गतवान्। तदनन्तरं लोकभवने आयोजिते साधारणे समारोहे सुनेत्रा पवारः उपमुख्यमन्त्री-पदस्य शपथं गृहीतवती।

हिन्दुस्थान समाचार / अंशु गुप्ता