मुख्यमन्त्रिणा पञ्चदश-सहस्रात् अधिकानां निर्माण-श्रमिकाणां बालकानां कृते छात्रवृत्ति-धनादेशः समर्पितः
नवदिल्ली, ११ फरवरीमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता पण्डित-दीनदयाल-उपाध्यायस्य पुण्यतिथ्यवसरे अद्य अत्र पञ्चदश-सहस्रात् अधिकानां निर्माण-श्रमिकाणां बालकानां कृते छात्रवृत्ति-धनादेशान् समर्पितवती। बुधवासरे त्यागराज-क्रीडांगणे आय
दिल्ली की मुख्यमंत्री रेखा गुप्ता बुधवार को त्यागराज स्टेडियम में  निर्माण श्रमिकों के बच्चों को छात्रवृत्ति देते हुईं, साथ में कैबिनेट मंत्री कपिल मिश्रा


नवदिल्ली, ११ फरवरीमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता पण्डित-दीनदयाल-उपाध्यायस्य पुण्यतिथ्यवसरे अद्य अत्र पञ्चदश-सहस्रात् अधिकानां निर्माण-श्रमिकाणां बालकानां कृते छात्रवृत्ति-धनादेशान् समर्पितवती।

बुधवासरे त्यागराज-क्रीडांगणे आयोजिते कार्यक्रमे मुख्यमन्त्रिणा दिल्ली-राज्यस्य ग्रामेषु अनेकेषां विकास-कार्याणां उद्घाटनं शिलान्यासश्च कृतः। मुख्यमन्त्री अवदत् यत् एषा सहायता दिल्ली-राज्यस्य ८५७ विद्यालयेषु अध्ययनरतानां बालकानां पर्यन्तं प्राप्यते। एतदर्थं द्वादश-कोटि-चत्वारिंशत्-लक्ष-रूप्यकात् अधिका राशि: निर्गता।

मुख्यमन्त्री सामाजिक-माध्यमे ‘एक्स’ इत्यत्र अवदत् यत् दिल्ली-नगरं तेषां परिश्रमशीलानां जनानां अस्ति, ये स्व-श्रमेण एतत् नगरं निर्मान्ति। अद्य वयं ताम् एव श्रम-शक्तिं सम्मानयामः। सर्वकारः अन्त्योदय-संकल्पेन सह कार्यं करोति। श्रमिक-भ्रातृ-भगिनीभ्यः सुविधाः वर्धन्ते, तेषां हस्तौ सुदृढौ क्रियते, तथा तेषां बालकानां शिक्षायां सहाय्यं कृत्वा भविष्यं सुरक्षितं क्रियते।

मुख्यमन्त्री छात्रवृत्ति-लाभिनां बालकानां शुभाशया: प्रेषयन्ती अवदत्— “उत्तमं पठत, अग्रे गच्छत, स्व-परिवारस्य दिल्ली-नगरस्य च नाम उज्ज्वलयत। अस्माकं सर्वकारः प्रत्येकं पदे भवद्भिः सह तिष्ठति।”

अस्मिन् अवसरे श्रम-रोजगार-मन्त्री कपिलः मिश्रा, विधायकः तथा दिल्ली-ग्राम-विकास-विभागस्य अध्यक्षः राजकुमारः चौहानः उपस्थितौ आस्ताम्।

हिन्दुस्थान समाचार / अंशु गुप्ता