जर्मन्याः ग्लोबल गैप स्टैंडर्ड ऑर्गनाइजेशनद्वारा उत्तरप्रदेश सर्वकारस्य अधिकारिणः शीक्षिष्यन्ते निर्यातस्य गुणान्
झांसी मंडलस्य त्रीन् अधिकारिणः समेत्य प्रदेशस्य 40 अधिकारिभ्यो योगीसर्वकार दापयिष्यति विशिष्टं प्रशिक्षणम् कृषेः, उद्यानस्य कृषि विपणनस्य कृषि विदेश व्यापारस्य च विभागानां अधिकारिभ्यो दापयिष्यते विशेषेण प्रशिक्षणम् झांसी, 11 फ़रवरीमासः (हि.स.)।
कार्यालय का फोटो


झांसी मंडलस्य त्रीन् अधिकारिणः समेत्य प्रदेशस्य 40 अधिकारिभ्यो योगीसर्वकार दापयिष्यति विशिष्टं प्रशिक्षणम्

कृषेः, उद्यानस्य कृषि विपणनस्य कृषि विदेश व्यापारस्य च विभागानां अधिकारिभ्यो दापयिष्यते विशेषेण प्रशिक्षणम्

झांसी, 11 फ़रवरीमासः (हि.स.)।

उत्तरप्रदेशराज्यस्य सर्वकारः कृष्युत्पादानां निर्यातवृद्ध्या कृषकाणाम् आयवृद्धेः उद्देश्येन नानाविधान् प्रयासान् कुर्वती अस्ति। अस्यैव क्रमस्य अन्तर्गतं कृषि-उद्यान-कृषिविपणन-कृषिविदेशव्यापारविभागस्य अधिकारिभ्यः पञ्चदिवसीयं विशेषप्रशिक्षणं प्रदास्यते। अस्मिन् प्रशिक्षणे प्रदेशस्य सर्वेभ्यः अधिकारिभ्यः सह झांसीमण्डलस्य अधिकारिणोऽपि सहभागीभविष्यन्ति।

अधिकारिणां कौशलविकासेन कृषकान् निर्यात-तन्त्रज्ञानं शिक्षयितुं प्रक्रियाः बोधयितुं च सफलता प्राप्स्यते। कृष्याधारित-उत्पादानां अन्ताराष्ट्रियस्तरे विपणन-रणनीतिं निर्मातुं प्रसिद्धं जर्मनीदेशीयं ग्लोबल गैप् स्टैण्डर्ड् संस्थानम् उत्तरप्रदेश-सरकारस्य अधिकारिभ्यः प्रशिक्षणं दास्यति।

कृषिविपणन-कृषिविदेशव्यापारविभागस्य झांसीमण्डलात् त्रयः अधिकारिणः अस्य प्रशिक्षणस्य कृते चयनिताः सन्ति— सहायक-कृषिविपणन-अधिकारी गंगादयालः, ज्येष्ठ-कृषिविपणन-निरीक्षकः प्रखरकुमारः, जालौन-जनपदस्य ज्येष्ठ-कृषिविपणन-निरीक्षकः धीरपालसिंहः च। प्रदेशस्य समग्रतः चत्वारिंशत् अधिकारिणः प्रशिक्षणं प्राप्स्यन्ति। प्रशिक्षणस्य प्रथमः वर्गः 23 तः 27 फरवरी पर्यन्तं, द्वितीयः वर्गः 9 तः 13 मार्च पर्यन्तं भविष्यति।

झांसी-जनपदस्य ज्येष्ठ-कृषिविपणन-निरीक्षकः प्रखरकुमारः अवदत् यत् कृषिक्षेत्रे विश्वव्यापिनः नवाचाराः श्रेष्ठप्रयोगाश्च विषये प्रशिक्षणे सूक्ष्मज्ञानं प्रदास्यते। अन्ताराष्ट्रिय-मानदण्डानां बोधेन कृषकान् जागरूकान् कृत्वा तेषां उत्पादाः वैश्विक-मानदण्डानुसारं विकसिताः भविष्यन्ति, येन तेषाम् आयवृद्धिः साधिता भविष्यति।

---------------

हिन्दुस्थान समाचार