Enter your Email Address to subscribe to our newsletters

हुगली, 11 फ़रवरीमासः (हि.स.)।
पश्चिमबङ्गप्रदेशस्य हुगली-जिलायाः ऐतिहासिके त्रिवेणी-सङ्गमे बुधवासरात् त्रिदिवसीयः कुम्भमहोत्सवः आरभ्यते। अयं मेला 11 तः 13 फरवरी पर्यन्तं प्रवर्तिष्यते। माघ-सङ्क्रान्त्याः दिने अत्र पुण्यस्नानस्य आयोजनं भविष्यति। विशेषं तु एतत् यत् पञ्चमवर्षीयस्य अस्य कुम्भमहोत्सवस्य कृते प्रयागराजतः पवित्रजलम् अपि त्रिवेणी-सङ्गमम् उपनीतम् अस्ति।
धार्मिकमान्यतानुसारं त्रिवेणी ‘मुक्तवेणी’ तथा प्रयागः ‘युक्तवेणी’ इति कथ्यते। अतः त्रिवेणी-सङ्गमस्य धार्मिकमहत्त्वम् अत्यन्तं प्राचीनं विशिष्टं च मन्यते। पौराणिककथासु उक्तं यत् देवी बेहुला लक्ष्मीन्दरं सहित्वा गङ्गाबक्षात् गच्छन्ती त्रिवेणी-घाटे विश्रान्तिं कृतवती।
इतिहासे त्रिवेणी-सप्तग्रामौ कदाचित् महान् व्यापारिकबन्दरगाहः आस्ताम्। किन्तु बर्गी-आक्रमणकाले तस्य युगस्य अनेकानि चिह्नानि विनष्टानि। तथापि अद्यापि नेता-धोपानी-घाटः अनेके प्राचीनमन्दिराश्च अत्र दृश्यन्ते। अस्यैव परम्परायाः अनुसारं साधु-सन्तः मकर-सङ्क्रान्तौ गङ्गासागरे पुण्यस्नानं कृत्वा त्रिवेणीम् आगत्य माघी-स्नानं कुर्वन्ति। प्राचीनकाले दीर्घयात्राकारणात् ते मासपर्यन्तं स्थित्वा पश्चात् स्वाश्रमं प्रत्यागच्छन्ति स्म। तस्यैव परम्परायाः पालनार्थं त्रिवेणी-स्थले पञ्चमवर्षे अपि निरन्तरं कुम्भस्नानस्य आयोजनं क्रियते।
अस्मिन् वर्षे 11 तः 13 फरवरी पर्यन्तं देशस्य विविधभागेभ्यः साधु-सन्तः त्रिवेणीम् आगमिष्यन्ति। तेषां कृते विशेष-अखाडानां व्यवस्था कृता अस्ति। त्रिवेणीस्य शिवपुर-मैदाने साधुनाम-कार्यक्रमः भविष्यति। अन्तिमदिने नगर-कीर्तनानन्तरं सप्तर्षि-घाटे पुण्यस्नानेन मेलस्य समापनं भविष्यति।
कार्यक्रमानुसारं 11 फरवरी दिने शिवपुर-स्पोर्टिंग-क्लब-मैदाने गीता-यज्ञः भविष्यति। 12 फरवरी दिने रुद्राभिषेक-यज्ञः महादेवस्य सहस्रनाम-पाठश्च आयोज्यते। आरआर-शिविरे साधूनाम् अखाडेषु द्विपञ्चाशत् पीठानां कल्पनां कृत्वा धूनी प्रज्वलिता भविष्यति। 13 फरवरी दिने माघ-सङ्क्रान्तौ अमृत-युग-स्नानं भविष्यति। तस्मात् पूर्वं साधूनां राजसी-यात्रा निष्कास्य सप्तर्षि-घाटे समाप्ता भविष्यति।
स्वामिना शिवानन्देन उक्तं यत् साधूनाम् आगमनं आरब्धम् अस्ति। 11 फरवरी दिनात् विधिवत् कार्यक्रमाः प्रारभ्यन्ते, 13 फरवरी दिने पुण्यस्नानानन्तरं भण्डारस्य आयोजनं भविष्यति। तस्मिन् दिने साधवः सम्पूर्णस्य त्रिवेणी-नगरस्य परिक्रमा करिष्यन्ति।
कुम्भमहोत्सवं प्रति सुरक्षाव्यवस्था अपि दृढीक्रिता अस्ति। हुगली-ग्रामीण-पुलिस-अधीक्षक कामनाशीष-सेन महोदयेन मेलास्थलस्य निरीक्षणं कृतम्। तेन उक्तं यत् विशालजनसमूहं दृष्ट्वा बहुसंख्यया पुलिसबलस्य नियुक्तिः भविष्यति। शताधिकाः सीसीटीवी-कैमरा स्थापिताः भविष्यन्ति, कतिपयेषु क्षेत्रेषु ‘प्रवेशनिषेधः’ इति नियमः अपि प्रवर्तिष्यते, येन श्रद्धालूनां सुरक्षा व्यवस्था च सुनिश्चिताः स्युः।
---------------
हिन्दुस्थान समाचार