उत्तरप्रदेश–वित्तविवरणम् - अवस्थापना–औद्योगिक–विकासाय वेगः, 27,103–कोटि–रूप्यकाणां नियोजनम्, जेवर–विमानक्षेत्राय 750–कोटि:
लखनऊनगरम्, ११ फरवरीमासः (हि.स.)। वित्तीयवर्षे २०२६–२७ उत्तरप्रदेश–सर्वकारः अवस्थापना तथा औद्योगिक–विकासाय 27,103–कोटि–रूप्यकाणि नियोजितानि, यत् वर्षे २०२५–२६ तुलनया १३ प्रतिशतं अधिकम्। नागरिक–उड्डयनाय 2,111–कोटि–रूप्यकाणि व्यवस्थितानि, यस्मिन् जेवर
विधान सभा में बजट भाषण पढ़ते वित्त मंत्री सुरेश खन्ना


लखनऊनगरम्, ११ फरवरीमासः (हि.स.)। वित्तीयवर्षे २०२६–२७ उत्तरप्रदेश–सर्वकारः अवस्थापना तथा औद्योगिक–विकासाय 27,103–कोटि–रूप्यकाणि नियोजितानि, यत् वर्षे २०२५–२६ तुलनया १३ प्रतिशतं अधिकम्। नागरिक–उड्डयनाय 2,111–कोटि–रूप्यकाणि व्यवस्थितानि, यस्मिन् जेवर–अन्ताराष्ट्रिय–विमानक्षेत्रस्य विकासाय 750–कोटि–रूप्यकाणि वित्तीय–प्रावधानं कृतम्।

वित्तमन्त्री सुरेशः खन्ना उक्तवान्, यत् मुख्यमंत्री–औद्योगिक–क्षेत्र विस्तारीकरणाय तथा नव–औद्योगिक–क्षेत्र–प्रोत्साहन–योजनायाः कृते 5,000–कोटि–रूप्यकाणि नियोजितानि। स्वामी–विवेकानन्द–युवा–सशक्तिकरण-योजनायाः अन्तर्गतं यूनाम् टैबलेट् एवं दूरभाषवितरणं प्रचलति, यस्या: योजनायाः वित्तीय–व्यवस्था 2,374–कोटि रूप्यकाणि।

अटल–इन्फ्रास्ट्रक्चर–अभियानान्तर्गतं अवस्थापना–विकासाय 2,000–कोटि–रूप्यकाणि नियोजितानि। विदेशी–निवेशं आकर्षयितुं घोषितां प्रोत्साहन–नीति–2023 क्रियान्वयाय 1,000–कोटि–रूप्यकाणि नियोजितानि।

डिफेंस–इंडस्ट्रियल–परिसरपरियोजनायाः अन्तर्गतं 200 रक्षा–उद्योगस्थापनाय एमओयू–हस्ताक्षरितानि। एतेषु 35,280–कोटि–रूप्यकाणां निवेशः तथा 53,263 व्यक्तिनां प्रत्यक्ष–रोजगारः अनुमानितः।

एक्सप्रेसवे–नेटवर्क-द्वारा औद्योगिक–परिसर–विकासाय वित्तीय–प्रावधानं 300–कोटि रूप्यकाणि त: 900–कोटि रूप्यकाणि प्रदत्तानि। आगरा–लखनऊ–पूर्वांचल–लिंक–एक्सप्रेसवे–विकासाय 675–कोटि स्थाने 1,400–कोटि रुप्यकाणि। जेवर–एयरपोर्ट–संपर्कित–ग्रीनफील्ड–एक्सप्रेसवे–निर्माणाय 1,000–कोटि वित्तीय–व्यवस्था त: 1,100–कोटिरुप्यकाणि। आगरा–लखनऊ–एक्सप्रेसवे–गंगा–एक्सप्रेसवे–(हरदोई–फर्रुखाबाद) मार्गाय 900–कोटि त: 1,250–कोटि रूप्यकाणि। विन्ध्य–एक्सप्रेसवे–सोनभद्र–चंदौली–गाजीपुर-मार्ग–विस्तारणाय क्रमशः 500–500–कोटिरुप्यकाणि।

औद्योगिक–परिदृश्यस्य हरित–विकासाय उत्तरप्रदेश–बायो–प्लास्टिक–औद्योगिक–नीति–2024 इत्यन्तर्गत निवेशक–प्रोत्साहनाय 119.37–कोटि–रूप्यकाणि नियोजितानि।

वित्तमन्त्री अवदत् यत् नागरिक–उड्डयनाय 2,111–कोटि–रूप्यकाणि। तस्मै जेवर–विमानक्षेत्राय 750–कोटिरुप्यकाणि, अन्य–वायु–पट्टिकायाः निर्माणाय विस्ताराय सुदृढीकरणाय च भूमि–अर्जनाय 1,100–कोटि रूप्यकाणि निश्चितानि।

हिन्दुस्थान समाचार / अंशु गुप्ता