आर्थिके सर्वेक्षणे नारी सशक्तिकरणस्य अनेकानि प्रावधानानि : अनुराग सिंह ठाकुरः
शिमला, 11 फ़रवरीमासः (हि.स.)। पूर्वकेन्द्रीयमन्त्री तथा सांसद अनुरागसिंहठाकुरः केन्द्रीयार्थिकसर्वेक्षणस्य 2026–27 स्वागतं कृत्वा तम् देशस्य नारीशक्तेः आर्थिकसामाजिकसशक्तीकरणाय नूतनदिशां दातुं समर्थं बजट् इति उक्तवान्। तेन उक्तं यत् प्रधानमन्त्रि
अनुराग ठाकुर


शिमला, 11 फ़रवरीमासः (हि.स.)। पूर्वकेन्द्रीयमन्त्री तथा सांसद अनुरागसिंहठाकुरः केन्द्रीयार्थिकसर्वेक्षणस्य 2026–27 स्वागतं कृत्वा तम् देशस्य नारीशक्तेः आर्थिकसामाजिकसशक्तीकरणाय नूतनदिशां दातुं समर्थं बजट् इति उक्तवान्। तेन उक्तं यत् प्रधानमन्त्रिणो नेतृत्वे गतद्वादशवर्षेषु महिलानाम् उत्थानार्थं व्यापकाः प्रयासाः कृताः, अयं च बजट् तस्यैव प्रतिबद्धतायाः विस्तारितं रूपम् अस्ति।

सः बुधवासरे प्रदत्ते वक्तव्ये अवदत् यत् एषः अद्यावधि महानतमः जेंडर-रेस्पॉन्सिव बजट् अस्ति, यस्मिन् समग्रबजटस्य 9.37 प्रतिशतभागः महिलासशक्तीकरणाय समानतायै च निर्धारितः अस्ति। महिला बालिकानां कल्याणार्थं प्रायः पञ्चलक्षकोटिरूप्यकाणां प्रावधानं कृतम्, यत् पूर्वसर्वेक्षणात् 11.36 प्रतिशताधिकम् अस्ति। तेन अपि उक्तं यत् महिलानां बालिकानां च शतप्रतिशतावंटनयुक्तासु योजनासु राशिः वर्धयित्वा ₹1,07,688.42 कोटिरूप्यकाणि कृता।

‘लखपति दीदी’ योजनायाः ‘शी-मार्ट’ इत्यनेन सह संयोजनस्य निर्णयः ऐतिहासिकः इति तेन कथितम्। तस्य अनुसारं अद्यावधि 1.48 कोट्यधिकाः महिलाः लखपति-दीदी अभवन्, 2027 वर्षपर्यन्तं त्रिकोटि महिलाः अस्य परिधौ आनयितुं लक्ष्यं निर्धारितम् अस्ति। दीनदयाल-अन्त्योदय-योजना–राष्ट्रिय-ग्रामीण-आजीविका-मिशनाय ₹19,200 कोटिरूप्यकाणि तथा ‘नमो ड्रोन दीदी’ योजनायै ₹676.85 कोटिरूप्यकाणां प्रावधानस्य अपि सः स्वागतं कृतवान्।

आवासक्षेत्रे प्रधानमन्त्री-आवास-योजना (शहरी) कृते ₹21,625.05 कोटिरूप्यकाणि तथा पीएमएवाई–ग्रामीण कृते ₹52,575.01 कोटिरूप्यकाणाम् आवंटनं महिलानां सम्पत्त्यधिकारं सामाजिकसुरक्षां च सुदृढं करोति इति तेन उक्तम्। महिलासुरक्षार्थं ₹1,014.05 कोटिरूप्यकाणि तथा मिशन-शक्ति योजनायै ₹3,200 कोटिरूप्यकाणां प्रावधानं कृतम्।

सः अपि अवदत् यत् प्रत्येकस्मिन् जनपदे उच्चशिक्षणसंस्थासु च, विशेषतः STEM-विषयेषु, छात्रावासनिर्माणस्य घोषणया बालिकानां उच्चशिक्षायां सहभागिता वर्धिष्यते। अयं बजट् महिला-नेतृत्व-विकासस्य एकीकृत-रणनीतिं दृढीकुरुते इति तेन निष्कर्षतः उक्तम्।

---------------

हिन्दुस्थान समाचार