श्रृंगवेरपुरे शीघ्रं पूर्णं भविष्यति निषादराज गुह्य सांस्कृतिक केंद्रस्य निर्माणम् : जयवीरसिंहः
निषादराजस्य धरण्यै लप्स्यते राष्ट्रिय परिचयस्य गौरवम् लखनऊ, 12 फरवरीमासः (हि.स.)।रामनगरी अयोध्यायाः अनुरूपेण प्रभोः श्रीरामस्य परमभक्तस्य निषादराजस्य राजधानी श्रृङ्गवेरपुरम् भव्यं आकर्षकं च रूपं दातुं विकसितं क्रियते। प्रयागराज जनपदस्य अस्मिन् ऐत
पर्यटन एवं संस्कृति मंत्री जयवीर सिंह


निषादराजस्य धरण्यै लप्स्यते राष्ट्रिय परिचयस्य गौरवम्

लखनऊ, 12 फरवरीमासः (हि.स.)।रामनगरी अयोध्यायाः अनुरूपेण प्रभोः श्रीरामस्य परमभक्तस्य निषादराजस्य राजधानी श्रृङ्गवेरपुरम् भव्यं आकर्षकं च रूपं दातुं विकसितं क्रियते। प्रयागराज जनपदस्य अस्मिन् ऐतिहासिके पौराणिके च स्थले निषादराज गुह्य सांस्कृतिककेन्द्रस्य निर्माणकार्यं तीव्रगत्या प्रवर्तते।

उत्तरप्रदेशस्य संस्कृतिविभागस्य अस्याः महत्त्वाकाङ्क्षायाः परियोजनायाः व्ययः १९.६१ कोटिरूप्यकाणि अस्ति तथा प्रायः ७० प्रतिशतं कार्यं सम्पन्नम् अस्ति। अवशिष्टं कार्यं शीघ्रमेव पूर्णं भविष्यति। एतां जानकारीं पर्यटनसंस्कृतिमन्त्री जयवीर सिंहः गुरुवासरे प्रकाशितवक्तव्ये उक्तवान्।

पर्यटनमन्त्री अवदत् यत् अस्य सांस्कृतिककेन्द्रस्य प्रमुखा विशेषता तस्य संग्रहालयखण्डः अस्ति, यत्र श्रीरामस्य निषादराजस्य च अमरा कथा चित्रमाध्यमेन सजीवता प्रदर्श्यते। अयं संग्रहालयः तयोः आत्मीयसम्बन्धान् सामाजिकसमरसतायाः च कथा प्रकटयिष्यति। संग्रहालयखण्डस्य संरचना सिद्धा अस्ति, अन्तिमसज्जाकर्म प्रवर्तते, पलस्तरकार्यं च सम्पन्नम्।

अस्यां परियोजनायां प्रायः ४०० जनानां क्षमतायुक्तं आधुनिकं सभागारम् (ऑडिटोरियम) अपि अस्ति, यत्र विविधाः सांस्कृतिककार्यक्रमाः आयोजयिष्यन्ते। सभागारे सोपानशिलाकर्म प्रचलति, इष्टकाकर्म च सम्पन्नम्। सम्पूर्णे परिसरे स्थापत्य संरचनात्मककार्याणि, विद्युत्सुव्यवस्था, आन्तरिकजलापूर्तिः च क्रियन्ते। परिसीमाभित्तिः निर्मिता अस्ति।

तत्र शिलाकर्म, परदावरणम्, उद्यानरचना, केन्द्रीयसूचनाफलकम्, मुख्यद्वारम्, रक्षककक्षः, अन्तःसंयोजितमार्गाः, वर्षाजलसंग्रहणव्यवस्था, सेप्टिकटङ्कः, सोकपिट्, भूमिगतजलाशयः च विकसिताः भवन्ति। धातुसंरचना तथा पम्पकक्षः अपि निर्मीयते।

जयवीर सिंहः अवदत् यत् श्रृङ्गवेरपुरं केवलम् ऐतिहासिकं स्थलम् न, अपितु त्यागस्य समर्पणस्य सामाजिकसमरसतायाः च अमरप्रतीकभूमिः अस्ति। एषा सा पावनी धरा यत्र भगवान् श्रीरामः निषादराज गुह्येन सह मिलितवान्, यस्य मिलनस्य माध्यमेन भारतीयसंस्कृतौ समानता आत्मीयता च सत्यामित्रतायाः अद्भुतः संदेशः प्रदत्तः।

प्रयागराजात् लखनऊमार्गे प्रायः ४५ किलोमीटर दूरी स्थितं श्रृङ्गवेरपुरं रामायणे निषादराजस्य राजधानी इति वर्णितम् अस्ति। उत्खनने अत्र श्रृङ्गीऋषेः मन्दिरम् प्राप्तम्, यस्य नाम्ना अस्य नगरस्य नामकरणम् अभवत्। अत्रैव भगवान् रामः एकां रात्रिं विश्रान्तिं कृतवान्। तेन निषादराजेन चरणप्रक्षालनस्य अनुमतिं याचित्वा गङ्गाजलेन तस्य चरणौ प्रक्षाल्य श्रद्धया तत् जलं गृहीतम्।

अद्यापि एतत् स्थानम् आस्थायाः प्रमुखकेन्द्रम् अस्ति। अयं विकासः श्रृङ्गवेरपुरं आस्था संस्कृति पर्यटनस्य च प्रमुखकेन्द्ररूपेण प्रतिष्ठापयिष्यति।

हिन्दुस्थान समाचार