प्रधानमंत्रिग्रामीणमार्गाभिकरणस्य अवशिष्टं कार्यं 31 मार्चतः पूर्वं करणीयम् : केशव प्रसाद मौर्यः
मुख्य कार्यपालक अधिकारिणा, यूपीआरआरडीए लोकनिर्माणविभागेन, ग्रामीण अभियंत्रण एवं विभागीय अधिकारिभिः सह समीक्षोपवेशनम् , ग्रामीणमार्गविकास अभिकरणस्य मुख्याधिकारिणा अधिकारिभ्यो दत्तः स्पष्टः आदेशः, कार्येषु शैथिल्ये भविष्यति कार्यवाही लखनऊ, 12
उपमुख्यमंत्री केशव प्रसाद मौर्य


मुख्य कार्यपालक अधिकारिणा, यूपीआरआरडीए लोकनिर्माणविभागेन, ग्रामीण अभियंत्रण एवं विभागीय अधिकारिभिः सह समीक्षोपवेशनम्

, ग्रामीणमार्गविकास अभिकरणस्य मुख्याधिकारिणा अधिकारिभ्यो दत्तः स्पष्टः आदेशः, कार्येषु शैथिल्ये भविष्यति कार्यवाही

लखनऊ, 12 फरवरीमासः (हि.स.)।

उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री केशवप्रसादमौर्येन विभागीयकार्येषु शीघ्रता आनयितुं पूर्वं दत्तानां निर्देशानां क्रमेन गुरुवासरे उत्तरप्रदेशग्रामीणमार्गविकासअभिकरणस्य मुख्यकार्यपालकाधिकारिणः अंकुरकौशिकस्य अध्यक्षतायां प्रधानमंत्रीग्रामसड़कयोजना (पीएमजीएसवाई तृतीयचरणस्य) अन्तर्गतावशिष्टकार्याणां विस्तृतसमीक्षासभा आयोजिता।

यूपीआरआरडीए इत्यस्य मुख्यकार्यपालकाधिकारिणा अंकुरकौशिकेन उक्तं यत् उपमुख्यमन्त्री केशवप्रसादमौर्यस्य आदेशानां भारतसरकारस्य मार्गनिर्देशानां च सम्बन्धे लोकनिर्माणविभागस्य (पीडब्ल्यूडी) ग्रामीणअभियन्त्रणविभागस्य (आरईडी) वरिष्ठाधिकारिणां च सह समीक्षासभा कृता।

मुख्यकार्यपालकाधिकारिणा स्पष्टतया निर्देशाः दत्ताः यत् पीएमजीएसवाई तृतीयचरणस्य अन्तर्गतं सर्वाणि अवशिष्टकार्याणि सर्वथा 31 मार्च 2026 तिथेः पूर्वं सम्पन्नानि कार्याणि स्युः।

समीक्षाकाले जनपदवारप्रगति निर्माणाधीनसड़कानां स्थितिः गुणवत्तानियन्त्रणं वित्तीयव्ययः निर्धारितसमयसीमायाः अनुपालनं च बिन्दुवारं परीक्षितम्।

तेन उक्तं यत् कार्याणां प्रगतिः नियमितरूपेण निरीक्ष्यताम् प्रत्येकस्तरे उत्तरदायित्वं निश्चितं क्रियताम्। येषु परियोजनासु प्रगतिः अपेक्षितस्तरात् न्यूना अस्ति तत्र विशेषकार्ययोजना निर्माय शीघ्रता प्रदीयताम्। गुणवत्तायाः विषये कदापि सम्झौता न क्रियताम्, अपितु पीएमजीएसवाई निर्धारितमार्गनिर्देशानुसारं निर्माणकार्याणि सम्पाद्यन्ताम्।

सभायां एतदपि निर्देशितं यत् कार्यस्थलेषु तकनीकीमानकानां पूर्णपालनं सुनिश्चितं क्रियताम् तथा गुणवत्तापरीक्षणप्रक्रिया अधिकं सुदृढा क्रियताम्। सम्बन्धिताधिकारिणः नियमितरूपेण स्थलीयनिरीक्षणं कुर्वन्तु समयबद्धरूपेण प्रगतिवृत्तान्तं च प्रस्तुतयन्तु इति आदेशाः दत्ताः।

अस्याः सभायाः माध्यमेन सुनिश्चितं कृतं यत् पीएमजीएसवाई तृतीयचरणस्य अन्तर्गतं सर्वाणि कार्याणि समयबद्धतया गुणवत्तया पारदर्शितया च पूर्णानि स्युः, येन ग्रामीणजनानां उत्तमा आवागमनसुविधा लभ्येत ग्रामाणां समग्रविकासश्च सुनिश्चितः स्यात्।

अस्यां सभायां लोकनिर्माणविभागस्य मुख्यअभियन्ता के के श्रीवास्तव, आरईडी अधिक्षणअभियन्ता रोहितजी, ए के राय उपमुख्यअभियन्ता यूपीआरआरडीए, देवेंद्रसिंह मुख्यअभियन्ता यूपीआरआरडीए, टी डी सिंह एसटीओ यूपीआरआरडीए, मायारामगुप्त वरिष्ठअभियन्ता यूपीआरआरडीए अन्ये च अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार