काश्याः बौद्धिकस्य आध्यात्मिक वैभवस्य च सजीवं प्रमाणं वर्तते मान मंदिर घाटः
वाराणसी, 12 फरवरीमासः (हि. स.)। वाराणस्याः मानमन्दिरघाटस्य विषये उत्तरप्रदेशपर्यटनविभागेन प्रचारप्रसारकार्यं आरब्धम् अस्ति। वाराणस्यां विद्यमानेषु नानाविधेषु पर्यटनस्थलेषु इदानीं मानमन्दिरघाटस्य अपि प्राधान्यं दत्त्वा तस्य प्रचारः पर्यटनविभागेन क
मान मंदिर घाट


वाराणसी, 12 फरवरीमासः (हि. स.)।

वाराणस्याः मानमन्दिरघाटस्य विषये उत्तरप्रदेशपर्यटनविभागेन प्रचारप्रसारकार्यं आरब्धम् अस्ति। वाराणस्यां विद्यमानेषु नानाविधेषु पर्यटनस्थलेषु इदानीं मानमन्दिरघाटस्य अपि प्राधान्यं दत्त्वा तस्य प्रचारः पर्यटनविभागेन क्रियते।

अस्मिन् सम्बन्धे वाराणस्याः क्षेत्रीयपर्यटनाधिकारी दिनेशकुमारः अवदत् यत् उत्तरप्रदेशस्य वाराणसीनगरं प्रति आगच्छतां पर्यटकानां कृते मानमन्दिरघाटः अपि एकं प्रमुखं पर्यटनकेन्द्रम् अस्ति। तस्य प्रचारप्रसारः सामाजिकमाध्यमेषु तथा प्रमुखस्थानेषु उत्तरप्रदेशपर्यटनविभागेन कृतः अस्ति।

मानमन्दिरघाटस्य इतिहासं पश्यामः चेत्, वाराणस्याः पावननगरे गङ्गायाः पवित्रे तीरे स्थितः मानमन्दिरघाटः केवलं घाटः न, अपि तु काश्याः बौद्धिकआध्यात्मिकवैभवस्य सजीवप्रमाणम् अस्ति। अस्य भव्यस्य घाटस्य निर्माणं अमेरराज्यस्य राजा मानसिंहेन षोडशशताब्द्यां कारितम् आसीत्। तस्य नाम्ना एव अयं घाटः मानमन्दिरघाट इति प्रसिद्धिं प्राप्तवान्।

तेन उक्तं यत् अस्य घाटस्य अत्यद्भुता विशिष्टा च पहचान प्राचीना खगोलीयवेधशाला जंतरमंतर इति अस्ति, यत्र पूर्वकालात् सूर्यस्य चन्द्रमसः नक्षत्राणां च गतिः सूक्ष्मरूपेण अध्ययनं क्रियते स्म। एषा वेधशाला अद्यापि भारतीयविज्ञानस्य गणितस्य वास्तुकलायाः च अद्भुतां प्रज्ञां प्रदर्शयति।

उच्चानि बलुकाश्मनिर्मितानि सोपानानि, राजस्थानीस्थापत्यशैल्याः भव्याः निर्मितयः, अग्रे निर्मलरूपेण वहन्ती गङ्गा च—एतत् समग्रं दृश्यं मानमन्दिरघाटं काश्याः राजसीज्ञानमयविशिष्टेषु घाटेषु श्रेष्ठस्थानं ददाति। अत्र भ्रमणार्थम् आगच्छन्तः पर्यटकाः वाराणस्याः विलक्षणं रूपम् अद्भुतं दृश्यं च अनुभवितुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार