Enter your Email Address to subscribe to our newsletters

पश्चिममेदिनीपुरम्, 12 फरवरीमासः (हि.स.)। मेदिनीपुरनगरे स्थितस्य ऐतिहासिकस्य विद्यासागर स्मृति मंदिर (विद्यासागर हॉल) इत्यस्य जीर्णोद्धारार्थं आधुनिकीकरणार्थं च राज्यसरकारेण ८० लक्ष रूप्यकाणां राशि स्वीकृता अस्ति। अस्य विषये बुधवासरे सायंकाले मेदिनीपुरस्य विधायकः सुजय हाजरा एषां सूचनां दत्तवान्।
उल्लेखनीयम् यत् अस्य ऐतिहासिकस्य प्रेक्षागृहस्य उद्घाटनं १६ दिसम्बर १९३९ तमे वर्षे गुरुदेव रवीन्द्रनाथ ठाकुरेण कृतम्। तस्मात् पूर्वं १० सितम्बर १९३८ तमे वर्षे तदानीन्तनः विद्वान् अनन्तरं भारतस्य राष्ट्रपतिः अभवत् डॉ. सर्वपल्ली राधाकृष्णन इत्यनेन अस्य शिलान्यासः कृतः। एतत् प्रेक्षागृहं केवलं नगरवासिनां न, अपि तु समग्रजिलावासिनां गौरवस्य प्रतीकरूपेण मन्यते।
दीर्घकालात् अनुरक्षणाभावात् भवनस्य भित्तिषु विदारणानि उत्पन्नानि, छतात् जलस्रावः भवति, सोपानानि जीर्णानि जातानि, ध्वनिप्रणाली प्रायः निष्क्रिया अभवत्। पुरातनाः आसन्दाः पंखाश्च अपि जीर्णावस्थायां सन्ति। बहुकालात् नगरस्य सांस्कृतिकसंस्थाभिः नागरिकैश्च अस्य नवीनीकरणस्य आग्रहः क्रियते स्म।
विधायकः सुजय हाजरा अवदत् यत् स्वीकृतया राश्या प्रेक्षागृहं वातानुकूलितं क्रियते, ध्वनिप्रणाली आधुनिकीकृता भविष्यति तथा सर्वाः आसन्दाः परिवर्तिताः भविष्यन्ति। सहैव भवनस्य अन्तर्बहिर्भित्तिषु अखण्ड मेदिनीपुरस्य इतिहासः तथा विरासत् चित्रमाध्यमेन प्रदर्श्यते। जिलस्य वीरक्रान्तिकारिणां चित्राणि संक्षिप्तजीवनपरिचयैः सह अपि प्रदर्श्यन्ते।
प्रशासनिकस्रोतसां अनुसारम् आवश्यकप्रक्रियाः पूर्णीकृत्य शीघ्रमेव कार्यारम्भः क्रियते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता