Enter your Email Address to subscribe to our newsletters

मुंबई, 12 फरवरीमासः (हि.स.)।
मुख्यमन्त्री देवेन्द्र फडणवीसः गुरुवासरे उक्तवान् यत् विविधाभिः स्वयंसेवीसंस्थाभिः सह विकासयोजनासु सहकार्यं कृत्वा महाराष्ट्रे शीघ्रं परिवर्तनं भविष्यति तथा राज्यस्य प्रगतेः वेगः अपि अविरतः स्थास्यति।
अद्य तस्य अध्यक्षतायां सह्याद्री अतिथिगृहे टाटा ट्रस्ट तथा नाम फाउण्डेशन इत्येतयोः मध्ये सभा अभवत्। सभायाः अनन्तरं मुख्यमन्त्री अवदत् यत् राज्यस्य प्रत्येकस्य परिवारस्य कृते स्वास्थ्यं पोषणं जलसुरक्षा तथा जीविकासुधारः इति सर्वकारस्य प्रमुखा प्राथमिकता अस्ति। एतासां स्वयंसेवीसंस्थानां साहाय्येन सरकारस्य विविधाः कल्याणकारी योजनाः जनानां कृते अधिकोपयोगिन्यः भविष्यन्ति।
गम्भीररोगाणां महङ्गचिकित्सया सामान्यजनाः बहुकष्टं अनुभवन्ति अतः राज्ये एषा व्यवस्था क्रियते यत् प्रत्येकस्मै आवश्यकाय रोगिणे उचितं उपचारं प्रदीयेत। मुख्यमन्त्री सहायता निधौ टाटा संस्थायाः महत्त्वपूर्णं योगदानं वर्तते येन वयं आवश्यकतानुसारं रोगिणां साहाय्यं कर्तुं शक्नुमः।
तेन उक्तं यत् नाम फाउण्डेशन जलसंरक्षणार्थं कार्यं करोति। पूर्वम् अपि जलस्रोतसां गादानयनं नालानां नदीनां च गम्भीरीकरणं विस्तारकरणं च कृतम्। राज्ये जलयुक्त शिवार योजना सफलतया प्रवर्तिता। एषा योजना जनान्दोलनरूपेण अभवत् तथा जनानां स्वयमेव योजना जाता। नाम फाउण्डेशनस्य सहभागितया विदर्भ तथा मराठवाडा प्रदेशेषु अल्पवृष्टिक्षेत्रेषु जलसंरक्षणार्थं बहु कार्यं सम्पन्नम्। अस्मिन् कार्ये टाटा ट्रस्ट्स अपि साहाय्यं कृतवन्तः।
टाटा ट्रस्ट्स संस्थायाः अध्यक्षः नोएल टाटा अवदत् यत् महाराष्ट्र सरकारेण सह सहकार्यं कृत्वा स्वास्थ्य शिक्षा पोषण जीविका जलस्वच्छता कार्यक्रमेषु समन्वयः क्रियते तथा सर्वेषां वर्गाणां जीवनं उत्तमं कर्तुं प्रयासः भविष्यति।
अस्मिन् अवसरे मुख्यसचिवः राजेश अग्रवालः डॉ निपुण विनायकः अनूप कुमार यादवः टाटा ट्रस्ट्स अध्यक्षः नोएल टाटा नाम फाउण्डेशन संस्थापकः नाना पाटेकरः मकरन्द अनासपुरे सिद्धार्थ शर्मा अन्ये च अधिकारिणः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार