Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, १३ फरवरीमासः (हि.स.)। उच्चन्यायालय–बार–असोसिएशन, इलाहाबादस्य अध्यक्षतया शुक्रवासरे अधिवक्तृभ्यः आहत्य ३४,८३,१००/- रूप्यकाणि चिकित्सीय–सहायता रूपेण प्रदत्तानि।
कार्यकारिण्या चिकित्सा–समितेः अध्यक्षः तथा संघटनस्य वरिष्ठ–उपाध्यक्षः कमलेशकुमार: द्विवेदी, अन्य चिकित्सा–समिति–सदस्येभ्यः अनुमोदित–चिकित्सीय–आवेदनानां मृतक–आश्रित–सहायता–आवेदनानां च आधारेण लाभार्थिभ्यः चिकित्सीय–सहायता तथा दिवंगत–अधिवक्तृणां परिवारजनेभ्यः मृतक–आश्रित–सहायता धनराशिः प्रदत्ता।एतत् कार्यं बार–संघटनस्य अध्यक्षः वरिष्ठ: अधिवक्ता राकेशपाण्डे ‘बबुआ’ तथा महासचिव: अखिलेशकुमार: शर्मा इत्येताभ्यां कृतः।
वितरणविवरणम्:
चिकित्सीय–सहायता ४१ अधिवक्तृ–सदस्येभ्यः आहत्य २०,०३,१००/- रूप्यकाणि। मृतक–आश्रित–सहायता त्रयाणां दिवंगत–अधिवक्तृणां परिवारजनेभ्यः १४,८०,०००/- रूप्यकाणि। आहत्य राशिः ३४,८३,१००/- रूप्यकाणि वितरितानि।
संयुक्त–सचिवः रामेश्वरदत्तपाण्डेय: उक्तवान् — अस्मिन् अवसरे उपाध्यक्षाः अमितकुमारसिंह:, विवेकमिश्र:, राजकुमार: त्रिपाठी, हनुमानप्रसादमिश्र:, दिनेशवरूण:, संयुक्त–सचिवाः प्रशासन–बैरीस्टरसिंह:, प्रेस–रामेश्वरदत्त: पाण्डेय:, महिला–बिन्दु कुमारी, कोषाध्यक्षः अंजनीकुमारमिश्र:, कार्यकारिणी–सदस्याः अंजलीसिंहतोमर:, कनककुमार: त्रिपाठी, दिवांशु: तिवारी, बलदेवशुक्ल:, अभिषेक: तिवारी, तृप्तियादव:, आरती गुप्ता, अखण्डप्रताप: त्रिपाठी, गयाप्रसादमिश्र:, गिरीशचन्द्र: शुक्ला, अनिरुद्धसिंह:, अवनीशचन्द्र: त्रिपाठी, कृष्णमोहनपाण्डेय:, आदित्यधर: द्विवेदी, अमितसिंहसेंगर: च उपस्थिताः अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता