रायपुरम् - त्रिदिवसीयः मैनपाट-महोत्सवस्य शुभारंभः अद्यारभ्य , मुख्यमंत्री सायः करिष्यन्ति उद्घाटनम्
सरगुजा, 13 (हि.स.)। छत्तीसगढ़-राज्यस्य “शिमला” इति प्रसिद्धे मैनपाट-प्रदेशे त्रिदिवसीयः “मैनपाट-महोत्सवः” अद्य शुक्रवासरे मध्याह्ने १:३० वादने मुख्यमन्त्री विष्णुदेव साय इत्यनेन उद्घाट्यते। अस्य कार्यक्रमस्य अध्यक्षता पर्यटन-मन्त्री राजेश अग्रवा
मैनपाट महोत्सव


सरगुजा, 13 (हि.स.)। छत्तीसगढ़-राज्यस्य “शिमला” इति प्रसिद्धे मैनपाट-प्रदेशे त्रिदिवसीयः “मैनपाट-महोत्सवः” अद्य शुक्रवासरे मध्याह्ने १:३० वादने मुख्यमन्त्री विष्णुदेव साय इत्यनेन उद्घाट्यते।

अस्य कार्यक्रमस्य अध्यक्षता पर्यटन-मन्त्री राजेश अग्रवाल इत्यस्य अध्यक्षतायां भविष्यति। महोत्सवे भोजपुरी-कलाकारः मनोज तिवारी, बॉलीवुड-गायिका कनिका कपूर तथा अन्ये बहवः ख्याताः कलाकाराः स्व-प्रस्तुतयः प्रदास्यन्ति।

महोत्सवस्य प्रथम-दिने १३ फेब्रुवरी-दिने भोजपुरी-गायकः मनोज तिवारी, छत्तीसगढ़ी-गायकः सुनील सोनी, ओडिशा-प्रदेशस्य हरिपद मोहंता इत्यनेन च ‘छऊ-नृत्यस्य’ प्रस्तुति भविष्यति।

द्वितीय-दिने १४ फेब्रुवरी-दिने छत्तीसगढ़ी-गायिका अलका चंद्राकर, ‘इण्डियन आइडल’ तथा ‘सारेगामापा’ इति स्पर्धाभ्यां प्रसिद्धा वैशाली रायकवार, गायकः स्वप्नील जायसवाल तथा स्थानीय-कलाकाराः मंचे प्रस्तुतीः करिष्यन्ति।

अन्तिम-दिने १५ फेब्रुवरी-दिने प्रसिद्धा बॉलीवुड-गायिका कनिका कपूर, रायगढ़-घराणस्य कथक-नृत्याङ्गना ज्योतिश्री वैष्णव, छत्तीसगढ़ी-गायकः आयुष नामदेव च स्व-कलाभिः वातावरणं रमणीयं करिष्यन्ति। तेन सह विद्यालयीन-विद्यार्थिभिः अपि नानाविधाः विभिन्न सांस्कृतिक-कार्यक्रमाः प्रस्तुताः भविष्यन्ति।

हिन्दुस्थान समाचार