Enter your Email Address to subscribe to our newsletters

अभिनेता निर्देशकः फरहान अख्तरः अन्तिमवारं १२० बहादुर इति चलचित्रे दृष्टः, यत् नवम्बर २०२५ मासे चित्रमन्दिरेषु प्रदर्शितम् आसीत्। अधुना सः अन्ताराष्ट्रियचलच्चित्रक्षेत्रे पदार्पणं कर्तुं सज्जः अस्ति। श्रूयते यत् तस्मै प्रसिद्धहॉलीवुडनिर्देशकस्य सैम मेंडेस महोदयस्य महत्त्वाकाङ्क्षिण्यां जीवनीआधारितपरियोजनायां द बीटल्स इति प्रमुखा भूमिका प्रदत्ता अस्ति। अस्य समाचारस्य प्रकाशनेन तस्य प्रशंसकेषु महान् उत्साहः उत्पन्नः।
वृत्तान्तानुसारं सोनी पिक्चर्स नामकसंस्था द बीटल्स ए फोर फिल्म सिनेमैटिक इवेंट इति बहुप्रतीक्षितपरियोजनायाः कृते नूतनकलाकाराणां घोषणां कृतवती, यस्मिन् फरहान अख्तरस्य नाम अपि समाविष्टम्। सः अस्मिन् चलचित्रे विख्यातभारतीयशास्त्रीयसंगीताचार्यस्य पण्डित रवि शंकरस्य पात्रं निर्वहिष्यति। विदितमेव यत् सप्ततितमे दशकस्य काले द बीटल्स नामकसंगीतदलस्य भारतभ्रमणसमये पण्डित रवि शंकरः तेषां आतिथ्यं कृतवान् तथा भारतीयसंगीतस्य परिचयं दत्तवान्। एषा फरहान अख्तरस्य प्रथम अन्ताराष्ट्रियदीर्घचलच्चित्रभूमिका भविष्यति। पूर्वं सः मिस मार्वल इति अमेरिकीयजालधारावाहिकायां लघुपात्रे दृष्टः आसीत्।
अस्यां चतुर्भागात्मकायां जीवनीपरियोजनायां अन्ये अपि अन्ताराष्ट्रियकलाकाराः नियुक्ताः सन्ति। उपलब्धसूचनानुसारं पॉल मैककार्टनी इत्यस्य मङ्गेतृ जेन एशर इत्यस्याः भूमिकायां लूसी बॉयटन दृश्यते। बीटल्सदलस्य मूलड्रमवादकस्य स्टुअर्ट सटक्लिफ इत्यस्य पात्रं हैरी लॉटी निर्वहिष्यति, तथा जॉन लेननस्य प्रथमपत्नी सिंथिया पॉवेल इत्यस्याः रूपेण मॉर्फिड क्लार्क दृश्यते।
अद्यापि अस्य चलचित्रस्य चित्रणकार्यं कदा कुत्र च आरभ्यते इति विषये निर्मातारः किञ्चित् आधिकारिकसूचनां न प्रकाशितवन्तः। तथापि अस्यां अन्ताराष्ट्रियपरियोजनायां फरहान अख्तरस्य सहभागिता भारतीयचलच्चित्रजगतः कृते महत्त्वपूर्णसिद्धिः इति मन्यते।
हिन्दुस्थान समाचार