जाज्वल्यदेव लोक महोत्सव एवं एग्रीटेक कृषि मेला : अखिल भारतीय कवि सम्मेलन का हुआ आयोजन
हास्यं व्यंगः, ओजः, श्रृंगारः इत्येभिः रसैः जनाः संजाताः भावपूर्णाः जांजगीर-चांपा 13 फरवरीमासः (हि. स.)। जाज्वल्यदेव लोकमहोत्सवः तथा एग्रीटेक कृषि मेला इत्यस्य आयोजनं ११ तः १३ फरवरीपर्यन्तं जिल्लायाः हाईस्कूल क्रीडाङ्गणे जांजगीरस्थे तथा कृष
जाज्वल्यदेव लोक महोत्सव एवं एग्रीटेक कृषि मेला 2026: अखिल भारतीय कवि सम्मेलन का हुआ आयोजन


जाज्वल्यदेव लोक महोत्सव एवं एग्रीटेक कृषि मेला 2026: अखिल भारतीय कवि सम्मेलन का हुआ आयोजन


हास्यं व्यंगः, ओजः, श्रृंगारः इत्येभिः रसैः जनाः संजाताः भावपूर्णाः

जांजगीर-चांपा 13 फरवरीमासः (हि. स.)।

जाज्वल्यदेव लोकमहोत्सवः तथा एग्रीटेक कृषि मेला इत्यस्य आयोजनं ११ तः १३ फरवरीपर्यन्तं जिल्लायाः हाईस्कूल क्रीडाङ्गणे जांजगीरस्थे तथा कृषि विज्ञान केन्द्रे जर्वे जांजगीरस्थे च विधीयते। अस्यैव क्रमस्य अन्तर्गतं गुरुवासरस्य रात्रौ हाईस्कूल क्रीडाङ्गणे अखिलभारतीय कविसम्मेलनस्य आयोजनं कृतम्।

अस्मिन् कविसम्मेलने सर्वे कवयः स्वैः प्रसिद्धैः गीतैः कविताभिश्च सर्वेषां श्रोतॄणां हृदयानि जितवन्तः। कार्यक्रमे कवीनां ओजस्विनी प्रस्तुति: जनान् सर्वान् बद्ध्वा धारितवती। हास्यव्यङ्ग्य ओजः श्रृङ्गाररसः गीतानि च जनान् भावविभोरान् अकुर्वन्।

अखिलभारतीय कविसम्मेलने शशिकान्त यादवः मध्यप्रदेशतः, डॉ आदित्य जैनः राजस्थानतः, गौरव चौहानः उत्तरप्रदेशतः, अमित शुक्लः मध्यप्रदेशतः, प्रीति पाण्डेय उत्तरप्रदेशतः, अभिषेक पाण्डेयः छत्तीसगढतः, मीर अली मीर छत्तीसगढतः, बंशीधर मिश्रः छत्तीसगढतः च स्वकाव्यपाठं कृतवन्तः।

अस्मिन् अवसरे जनप्रतिनिधयः अधिकारी कर्मचारी च बहुसंख्यकाः श्रोतारः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार