जम्मू-कश्मीरे 559 प्रशिक्षण केंद्रेषु दीयते शिल्प कौशलस्य प्रशिक्षणम् : सर्वकारः
जम्मूः, 13 फरवरीमासः (हि.स.)। जम्मू कश्मीर सर्वकारेण शुक्रवासरे विधानसभायै सूचितं यत् केन्द्रशासित-प्रदेशे नानाविध-व्यवसायेषु मौलिकं उन्नतं च शिल्पकौशलं प्रदातुं वर्तमानकाले ५५९ प्राथमिक-उन्नत-प्रशिक्षण-केन्द्राणि कार्यरताः सन्ति। चदूरा-क्षेत्रस
जम्मू-कश्मीरे 559 प्रशिक्षण केंद्रेषु दीयते शिल्प कौशलस्य प्रशिक्षणम् : सर्वकारः


जम्मूः, 13 फरवरीमासः (हि.स.)।

जम्मू कश्मीर सर्वकारेण शुक्रवासरे विधानसभायै सूचितं यत् केन्द्रशासित-प्रदेशे नानाविध-व्यवसायेषु मौलिकं उन्नतं च शिल्पकौशलं प्रदातुं वर्तमानकाले ५५९ प्राथमिक-उन्नत-प्रशिक्षण-केन्द्राणि कार्यरताः सन्ति।

चदूरा-क्षेत्रस्य विधायकः अली मोहम्मद डार इत्यनेन शिल्पकाराणां कल्याण-संबन्धे पृष्टस्य प्रश्नस्य उत्तरे सरकारेण उक्तं यत् हस्तशिल्प-हथकरघा-क्षेत्रयोः कौशल-विकासं सुदृढीकर्तुं विभागेन प्रशिक्षण-केन्द्राणि संचाल्यन्ते।

सरकारेण अवगतं कृतं यत् केवलं बडगाम-जिलायाम् २०२४-२५ वर्षे कारीगर-बुनकर-ऋणपत्र-योजनायाः अन्तर्गतं १९२० कारीगर-बुनकराः समाविष्टाः, येभ्यः व्याज-अनुदानरूपेण १९७.२३ लक्ष-रूप्यकाणि वितरितानि। तथा २०२५-२६ वर्षे २०१५ लाभार्थिनः समाविष्टाः, येभ्यः ९६.५६ लक्ष-रूप्यकाणि वितरितानि।

कारखण्डार-योजनायाः अन्तर्गतं द्वयोः वर्षयोः अवधौ बडगामे अष्टौ एककाः स्थापिताः, येन ८८ शिल्पकाराः लाभान्विताः। तेषां कृते वजीफ-मानदेय-रूपेण ९.१९६ लक्ष-रूप्यकाणि वितरितानि।

सरकारेण पुनः उक्तं यत् २०२४-२५ तथा २०२५-२६ वित्तीय-वर्षयोः अवधौ बडगामस्य विभिन्न-खण्डेषु हस्तशिल्प-हथकरघा-सहकारी-समितीनां स्वसहायता-समूहानां च वित्तीय-साहाय्य-योजनायाः अन्तर्गतं ४९ लक्ष-रूप्यकाणि निर्गतानि।

एतेषु द्वयोः वित्तीय-वर्षयोः बुडगामे हस्तशिल्प-हथकरघा-प्रशिक्षण-केन्द्राणां निवासार्थं भाडा-साहाय्य-रूपेण ४५.२५ लक्ष-रूप्यकाणि अपि वितरितानि इति सरकारेण सूचितम्।

बडगामे जीआई-प्रमाणीकरण-प्रयोगशालायाः स्थापनासंबन्धे सर्वकारेण उक्तं यत् केंद्रीकृत-परीक्षण-प्रमाणीकरण-सुविधाः वर्तमानकाले श्रीनगर-नगरे उपलब्धाः सन्ति, तथा जीआई-प्रमाणीकरण-प्रक्रियायाः विकेन्द्रीकरणस्य कश्चन प्रस्तावः विचाराधीनः नास्ति।

---------------

हिन्दुस्थान समाचार