तिब्बती धर्मगुरु दलाई लामा मासद्वयस्य प्रवासोत्तरं प्राप्नोत् धर्मशाला, जातं सोत्साहं स्वागतम्
धर्मशाला, 13 फ़रवरीमासः (हि.स.)। तिब्बती आध्यात्मिकगुरुः दलाईलामा द्विमासपर्यन्तं दक्षिणभारतप्रवासं समाप्त्य शुक्रवासरे पुनः मैक्लोडगञ्जं प्रत्यागच्छत्। सः प्रातः प्रायः नववादने अर्धवादने च दिल्लीनगरात् विमानमार्गेण काङ्गडाविमानस्थलं प्राप्तवान्,
कांगड़ा एयरपोर्ट पर धर्मगुरु दलाईलामा।


दलाई लामा के स्वागत के लिए सड़क किनारे खड़े तिब्बती समुदाय के लोग।


धर्मशाला, 13 फ़रवरीमासः (हि.स.)।

तिब्बती आध्यात्मिकगुरुः दलाईलामा द्विमासपर्यन्तं दक्षिणभारतप्रवासं समाप्त्य शुक्रवासरे पुनः मैक्लोडगञ्जं प्रत्यागच्छत्। सः प्रातः प्रायः नववादने अर्धवादने च दिल्लीनगरात् विमानमार्गेण काङ्गडाविमानस्थलं प्राप्तवान्, यत्र निर्वासिततिब्बतसरकारस्य प्रतिनिधिभिः अन्यैः बौद्धलामाभिश्च तस्य स्वागतं कृतम्।

धर्मगुरोः आगमने विमानस्थलात् आरभ्य विद्यालयशिक्षामण्डलककार्यालयपर्यन्तं मैक्लोडगञ्जमार्गस्य उभयतः तिब्बतसमुदायस्य स्थानीयजनानां च बहवः जनाः पङ्क्तिबद्धाः तिष्ठन्तः तं स्वागतवन्तः। अपरत्र तस्य आगमनसम्बन्धेन समग्रे काङ्गडाक्षेत्रे हर्षोल्लासस्य वातावरणम् आसीत्, विमानस्थलात् मैक्लोडगञ्जपर्यन्तं मार्गः पारम्परिकतोरणद्वारैः भव्यतया अलङ्कृतः आसीत्।

उल्लेखनीयम् यत् दलाईलामा गतदिसम्बरमासस्य द्वादश्यां दक्षिणभारतयात्रायै प्रस्थितवान् आसीत्। प्रायः द्विमासानन्तरं तस्य पुनरागमने तिब्बतसमुदायस्य जनाः अत्यन्तम् उत्साहिताः सन्ति। विशेषतया तिब्बतनववर्षोत्सवस्य लोसर इत्यस्य पूर्वमेव तस्य उपस्थितिः उत्सवस्य शोभां द्विगुणां कृतवती। समुदायजनानां मतम् अस्ति यत् धर्मगुरोः सान्निध्ये नववर्षस्य उत्सवः तेषां कृते महत् सौभाग्यम् अस्ति।

दलाईलामस्य मैक्लोडगञ्जप्रत्यागमनेन क्षेत्रस्य पर्यटनक्रियासु अपि महान् विकासः अपेक्षितः। तस्य प्रवासकाले विश्वस्य विविधदेशेभ्यः बौद्धानुयायिनः विदेशप्रतिनिधयः पर्यटकाः च तस्य दर्शनार्थं धर्मशालां आगच्छन्ति। अनेन स्थानीयहोटलव्यवसायिनः टैक्सीचालकाः हस्तशिल्पव्यापारिणश्च उत्तमव्यापारस्य आशां लभन्ते। पर्यटनउद्यमिनां कथनानुसारं धर्मगुरोः उपस्थित्या मैक्लोडगञ्जस्य बाजारः पूर्णतया सजीवः भवति।

हिन्दुस्थान समाचार