Enter your Email Address to subscribe to our newsletters

मंदसौरः, 13 फ़रवरीमासः (हि.स.)।
मध्यप्रदेशराज्यस्य मंदसौरजनपदस्य स्थानीयस्नेहनगरस्थिते प्रसिद्धे द्वादशज्योतिर्लिङ्गमन्दिरे महाशिवरात्रिपर्वणः उपलक्ष्ये आयोज्यमानानां विविधधार्मिककार्यक्रमाणां श्रृंखला उत्साहेन प्रारब्धा अस्ति। अस्यां कड्यां मन्दिरपरिसरे बाबाभोलेनाथस्य विवाहसंस्कारसम्बद्धा हल्दीसंस्कारस्य क्रिया श्रद्धया उल्लासेन च सम्पन्ना। अस्मिन् मांगलिकावसरे बहुसंख्यकाः महिलाभक्ताः सहभागिन्यः अभवन्, ताभिः भगवते हल्दी समर्पिता, मङ्गलगानैः च समग्रः परिसरः शिवमयः कृतः। नगरस्य महिला-मित्रमण्डलस्य सदस्याः अपि विशेषरुच्युत्साहाभ्यां अस्मिन् आयोजने सक्रियतया भागं वहन्ति।
माध्यमप्रभारी किरणशर्मा आगामिकार्यक्रमाणां विषये सूचनां दत्तवती यत् उत्सवस्य अग्रिमे चरणे १४ फरवरी दिने अपराह्णे द्विवादने मन्दिरपरिसरे मेंधिकासंस्कारस्य आयोजनं भविष्यति। अस्यां क्रियायां सर्वाः महिलाश्रद्धालवः विशेषवेशभूषां धारयित्वा आगच्छेयुः इति अनुरोधः कृतः। तस्मिन्नेव दिने रात्रौ अष्टवादने भव्यः महिला-संगीतकार्यक्रमः भविष्यति, यस्मिन् महिलाः स्वेच्छितवेषेण उपस्थित्य सांस्कृतिकप्रस्तुतिभिः बाबाय गुणगानं करिष्यन्ति।
तथैव श्रीअमलेश्वरमहादेवमंदिरे अपि प्रतिवर्षवत् अस्मिन् वर्षे १५ फरवरी रविवासरे महाशिवरात्रिपर्व धूमधामेन आचरिष्यते। अस्य कृते ट्रस्टसमित्या सर्वाः सज्जाः सम्पन्नाः। पर्वदिने मन्दिरं विद्युत्सज्जया पुष्पैः च अलङ्कृतं भविष्यति। भगवान् अमलेश्वरमहादेवस्य दर्शनार्थं पुरुषाणां महिलानां च पृथक्पङ्क्तिव्यवस्था कृता अस्ति। ट्रस्टाध्यक्षः गोपालगुरुः तथा सचिवः सुरेशशर्मा अवदताम् यत् अपराह्णे एकवादने महारुद्राभिषेकः, सायंकाले सप्तवादने महाआरती प्रसादवितरणं च भविष्यति, ततः परं रात्रौ मन्दिरे भजनसन्ध्यायाः अपि आयोजनं विधास्यते।
---------------
हिन्दुस्थान समाचार