Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ फरवरीमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मु शुक्रवासरे अवदत् यत् देशस्य प्रत्येकं नागरिकः कर्मयोगेन भारतस्य सतत–समग्र–विकासे महत्त्वपूर्णं योगदानं दातुं शक्नोति।
अद्य अत्र ब्रह्माकुमारी ईश्वरीय-विश्वविद्यालय–संस्थया आयोज्यमानस्य अखिल–भारतीय–सम्मेलनस्य उद्घाटनं कृत्वा राष्ट्रपतिना “कर्मयोगेन सशक्तं भारतम्” इति राष्ट्रव्यापी–अभियानस्य शुभारम्भः कृतः। अस्मिन् एव अवसरे गुरुग्राम–स्थितस्य ओम शान्ति रिट्रीट केन्द्रस्य रजत–जयन्ती–समारोहस्यापि शुभारम्भः अभवत्।
स्वीय–सम्बोधने राष्ट्रपतिः अवदत् यत् संतुलित–समग्र–विकासाय नैतिक–मूल्यानां तथा आध्यात्मिकतायाः भौतिक–प्रगत्या सह समन्वयनम् अनिवार्यम्। आर्थिक–प्रगतिः समृद्धिं वर्धयति, प्रौद्योगिक–उन्नतिः च नवाचारं, दक्षतां तथा प्रतिस्पर्धां प्रोत्साहयति—ये समृद्ध–राष्ट्रस्य आधाराः सन्ति। किन्तु नैतिकताया: अभावे आर्थिक–प्रौद्योगिक–विकासः सामाजिक–असन्तुलनं जनयितुं शक्नोति। अनैतिक–आर्थिक–प्रगत्या सम्पत्तेः संसाधनानां च केन्द्रीकरणं, पर्यावरणीय–क्षतिः तथा दुर्बल–वर्गाणां शोषणं सम्भवति; तथा नैतिक–मूल्यैः विहीनः प्रौद्योगिकी–प्रयोगः मानवतायै विनाशकारी भवितुमर्हति।
तया उक्तं यत् आध्यात्मिकता अस्मभ्यं मूलभूत–मूल्यानि नैतिक–नमूना च प्रददाति, यत् कर्मयोगस्य अर्थात् निःस्वार्थ–सेवाया: प्रेरणां जनयति। आध्यात्मिकता सत्यनिष्ठा, करुणा, अहिंसा, सेवा–इत्यादि गुणान् बलवतीं करोति; एते गुणाः शान्त–न्याय्य–समाज–निर्माणाय आवश्यकाः। यदा अस्माकं विचाराः आध्यात्मिक–मूल्येषु आधारिताः भवन्ति, तदा वयं स्वार्थात् परं गत्वा समस्त–समाजस्य कल्याणं चिन्तयितुं शक्नुमः।
राष्ट्रपतिः अवदत् यत् ब्रह्माकुमारी–ईश्वरीय–विश्वविद्यालयः राजयोगस्य शिक्षां ददाति, या केवलं एकस्मिन् स्थाने उपवेशनं कृत्वा आत्मचिन्तनपर्यन्तं न सीमिता; कर्मयोगः तस्याः अभिन्नं अङ्गं अस्ति। कर्मयोगस्य अर्थः— उच्च–आध्यात्मिक–सिद्धान्तान् अनुवर्त्य स्वीयान् सर्वान् दायित्वान् सम्यक् निर्वहणम्।
तया प्रसन्नता व्यक्ता यत् ब्रह्माकुमारी–संस्थया सम्बद्धाः लक्षावधि–जनाः नियमितरूपेण कर्मयोगस्य अभ्यासं कुर्वन्ति, सार्थकं जीवनं च यापयन्ति। अन्ते तया उक्तं यत् कर्मयोगेन प्रत्येकं नागरिकः भारतं आर्थिकरूपेण सशक्तं कर्तुं, तथा मूल्य–आधारित–जीवनस्य विश्वाय आदर्श–समाज–निर्माणे योगदानं दातुं शक्नोति।
हिन्दुस्थान समाचार / अंशु गुप्ता