Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 फरवरीमासः (हि.स)।
केन्द्रीय नागरविमाननमन्त्रिणा के राममोहननायडू महोदयेन शुक्रवासरे उक्तं यत् भारतस्य लक्ष्यं आगामीपञ्चवर्षेषु पञ्चाशत् नवीनविमानस्थाननिर्माणं कर्तुम् अस्ति, येन देशस्य स्थावरसम्पत्तिक्षेत्राय महानवसराः उत्पद्यन्ते।
केन्द्रीयमन्त्रिणा एषा सूचना नयीदिल्ली नगरे रियल एस्टेट उद्योगनिकायेन आयोजिते राष्ट्रीयशहरीरियल एस्टेटविकाससम्मेलने सम्बोधनसमये प्रदत्ता। तेन उक्तं यत् भारतं विश्वस्य अतिशीघ्रवर्धमानानां नागरविमानापणानां मध्ये प्रमुखस्थानं धारयति, वर्तमानकाले देशे पञ्चषष्ट्यधिकशतं अर्थात् १६५ क्रियमाणविमानस्थानानि सन्ति।
नायडूमहोदयेन अपि निर्दिष्टं यत् प्रायः प्रत्येकत्रयस्त्रिंशद्दिनेषु एकं नूतनं विमानस्थानं वा नूतनटर्मिनल् भवनं वा सिद्धं भवति। सः अवदत् यत् विमाननसुरक्षां विना कस्यापि समझौतस्य विमानस्थानानां समीपे भवनानां उन्नतिसम्बद्धसमस्याः समाधानाय सः सक्रियतया प्रयत्नशीलः अस्ति।
देशस्य स्थावरसम्पत्तिक्षेत्रस्य सम्भावनाः निर्दिशन् सः उक्तवान् यत् २०३० वर्षपर्यन्तं अस्य क्षेत्रस्य परिमाणं प्रायः सहस्रअरबडॉलरपर्यन्तं भविष्यति, यत् २०४७ वर्षपर्यन्तं पञ्चसहस्रात् सप्तसहस्रअरबडॉलरपर्यन्तं वर्धितुं शक्नोति।
तेन रियल एस्टेटविकासे केवलं जीवनस्तरस्य वृद्धिः न, अपि तु जीवनगुणवत्तायाः अपि ध्यानं दातव्यम् इति विशेषतया उक्तम्। युवजनानां कृते भाडायाः दातुं शक्यानि आवासपरियोजनानि विकसितुम् अपि आह्वानं कृतम्।
---------------
हिन्दुस्थान समाचार