Enter your Email Address to subscribe to our newsletters

मंडी, 13 फ़रवरीमासः (हि.स.)।
अंताराष्ट्रियशिवरात्रिमहोत्सवस्य उपलक्ष्य संस्कृति सदन कांगनीधारस्थले आयोजिते नाट्यमञ्चने द्वितीये तथा अन्तिमे दिने अतिरिक्त जिलादण्डाधिकारी डॉ मदनकुमार मुख्यातिथिरूपेण उपस्थितः आसीत्। कार्यक्रमस्य द्वितीये दिने सामाजिकसांस्कृतिकसमकालीनविषयानाधारितानां नाटकानां प्रभावी मञ्चनं कृतम्।
उत्सवसंस्थया ओ रे मनवा इति नाटकस्य प्रस्तुति कृता। अस्य मूलकथालेखकः निर्मलवर्मा अस्ति, नाट्यरूपान्तरणं निर्देशनं च दक्षाशर्मया कृतम्। एतन्नाटकं स्त्रीपुरुषसम्बन्धानाधारितं अस्ति, यस्मिन् नायिका विवाहितपुरुषं प्रेम्णा इच्छति यस्य एका कन्या अपि अस्ति। सम्बन्धानां सूक्ष्मतानाबानं कलाकारैः स्वसशक्ताभिनयेन अत्यन्तं सूक्ष्मतया प्रदर्शितम्। मुख्यपात्रेषु दक्षाशर्मा, मुनीशदेवमोहन, सरिताहाण्डा, जयचौहान च आसन्। प्रकाशपरिकल्पना कश्मीरसिंहस्य, सज्जाविन्यासः वेदकुमारस्य आसीत्।
हिमाचल सांस्कृतिक शोधसंस्थान तथा रंगमण्डलेन ब्यूटी पार्लर इति प्रभावशालिनाट्यप्रस्तुति अपि मञ्चिता। एषा सुप्रसिद्धलेखिकायाः रेखावशिष्ठस्य कथायाः आधारे निर्मिता, यस्याः नाट्यरूपान्तरणं निर्देशनं च सीमाशर्मया कृतम्। एषा कथा तस्य व्यक्तेः जीवनं केन्द्रे स्थापयति यः सौन्दर्यसज्जागृहं संचालयति। सः अन्येषां मुखानि शोभयन् स्वजीवनस्य आकर्षणात् संवेदनाभ्यः निजस्वप्नेभ्यश्च शनैः शनैः दूरं गच्छति। बाह्यसौन्दर्यस्य पृष्ठे निहिताः आन्तरिकसंघर्षाः सामाजिकदिखावः मानवीयएकाकित्वं च नाटकेन संवेदनशीलतया यथार्थरूपेण प्रदर्शितम्। एषा प्रस्तुति दर्शकान् तस्मिन् सामाजिकद्वन्द्वे आनयति यत्र जनः अन्येषां जीवनं प्रकाशयन् स्वयमेव अन्तः शून्यतां प्राप्नोति।
मुख्यभूमिकायां कश्मीरसिंहः ब्यूटी पार्लरपात्रं अत्यन्तं जीवन्ततया प्रभावपूर्णतया च अभिनीतवान्। सीमाहसन, पूजाचक्रवर्ती, रिया, कामाक्षी, प्रीति, सचिन, भारती, दीपकुमार तथा अन्ये कलाकाराः अपि स्वस्वपात्राणि कुशलतया निर्वहन्तः आसन्। कलाकाराणां सामूहिकशक्तिः निर्देशकस्य सूक्ष्मदृष्टिः च दर्शकान् आरम्भात् अन्तपर्यन्तं आकृष्टवन्ती।
अतिरिक्तं संवाद युवा मण्डलेन अधूरे पन्ने यादों की चौखट इति नाटकस्य अपि प्रभावी मञ्चनं कृतम्। मनजीतमन्ना निर्देशनाधीने प्रस्तुतम् एतन्नाटकं तेषां वृद्धानां अनन्तप्रतीक्षायाः कथा अस्ति ये स्वजनवियोगानन्तरम् अपि अन्तिमाशायाः आधारेण जीवनं यापयन्ति। प्रतिदिनं कालः गच्छति पृष्ठानि परिवर्तन्ते तथापि गृहनिवर्तनस्य आकांक्षा स्थिरैव तिष्ठति।
एतेषां नाट्यप्रस्तुतिनां कारणात् संस्कृति सदन कांगनीधार रंगमञ्चीयक्रियाकलापानां प्रमुखकेन्द्रं जातम्। विविधविषयानाधारिताः एताः सशक्तप्रस्तुतयः दर्शकेभ्यः कला संस्कृतिश्च सह सम्बद्धतायाः विशेषमवसरं प्रदत्तवन्त्यः। अस्मिन् अवसरे जिलाभाषाधिकारी रेवतीसैनी, रंगकर्मी रूपउपाध्याय, कुलदीपगुलेरिया अन्ये गणमान्याश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार