Enter your Email Address to subscribe to our newsletters

पटियालानगरम्, १३ फरवरीमासः (हि.स.)। एशियाई–क्रीडा–२०२६ मध्ये भारतस्य प्रथमवारं पदक–लाभस्य लक्ष्येण भारतीय–खड्गक्रीडक (तलवारबाजी)–दलाय महती प्रेरणा लब्धा। भारतीय–खेल–प्राधिकरणस्य (साई) अन्तर्गतं पटियालायां नेताजी-सुभाष–नेशनल–इंस्टिट्यूट–ऑफ–स्पोर्ट्स इत्यत्र २२.८३ कोटिरूप्यकाणां व्यये निर्मितः अत्याधुनिकः –उच्च-प्रदर्शन–केन्द्रं उद्घटितम्।
एतत् नवीनं केन्द्रं अन्ताराष्ट्रिय–मानकानुसारं सुसज्जितं अस्ति तथा क्रीडकानां कृते विश्वस्तरीय–प्रशिक्षण–पर्यावरणं प्रदातुम् अर्हति। अस्मिन् बहुउद्देश्यीय–इनडोर–फेंसिंग–हॉल, इंटरनेशनल–स्टैंडर्ड पिस्टे, इलेक्ट्रॉनिक–स्कोरिंग–सिस्टम इत्यादय: च सन्ति, येन प्रतियोगिता–सदृशे वातावरणे अभ्यासः सम्भवः। एवं च खेल–विज्ञान–सेवाः, स्ट्रेंथ एवं कंडीशनिंग–सुविधाः, रिकवरी–सिस्टम च एकस्मिन् स्थाने उपलब्धा: सन्ति।
२४ सदस्यीयं सैबर–दलं अभ्यासं करोति
एशियाई–क्रीडा–२०२६ (जापान)–सन्दर्भे २४ सदस्यीयं भारतीय–सीनियर–सैबर–दलं (१२ पुरुषाः, १२ महिलाः) मुख्य–प्रशिक्षकस्य सागर: लागु इत्यस्य मार्गदर्शनं प्राप्नुवन्ति। फेंसिंग–एसोसिएशन–ऑफ–इंडिया इत्यस्य प्रमुख–प्रशिक्षक: सागर: लागु उक्तवान् — “एतत् केन्द्रं प्रथमवारं खड्गक्रीडायै समर्पितं स्थानरूपेण भारतदेशे निर्मितम्। अन्य साई–केंद्रेषु बहुउद्देश्यीय–स्थानानि सन्ति, किन्तु खड्गक्रीडायै समर्पितं तथा सर्वैः उपकरणैः युक्तं एतत् केन्द्रम् अद्वितीयम् अस्ति। मम अनुभवस्य आधारेण अस्मिन् समये भारतस्य श्रेष्ठतमा सुविधा इति मन्ये।”
अन्ताराष्ट्रिय–स्तरे भारतस्य परिवर्तनम्
भारते खड्गक्रीडायै अद्यापि विकासावस्थायां अस्ति, किन्तु अन्ताराष्ट्रिय–स्तरे प्रदर्शनस्य निरन्तरं परिवर्तनं दृश्यते। एषु क्रीडासु अद्यावधि भारतस्य कृते पदक–लाभः न अभवत्। देशस्य अग्रगण्य: क्रीडकेण भवानीदेवेन टोक्यो–२०२० ओलंपिक–योग्यतां प्राप्य इतिहासं रचितम् तथा २०२३ सीनियर–एशियाई–चैंपियनशिप-मध्ये कांस्य–पदकमपि विजितम्। वर्तमानकाले भारतस्य त्रय: खड्गक्रीडका: — भवानी देवी (महिला सैबर, वर्ल्ड–रैंकिंग ५९), करणसिंह: (पुरुष सैबर, वर्ल्ड–रैंकिंग ७५), तनिष्का खत्री (महिला एपी, वर्ल्ड–रैंकिंग ८६) च विश्व–रैंकिंग–टॉप–१०० मध्ये सम्मिलिताः।
क्रीडका: सौविध्यं प्रशंसितवन्तः
२०२२–कॉमनवेल्थ–खड्गक्रीडा–चैंपियनशिप–कांस्य–पदक–विजेता केपी गिशो निधिः उक्तवान् — “अत्र सुविधाः जर्मनी–हंगरी इत्यादि यूरोपीय–सुविधाभ्यः न्यूनाः न सन्ति। आधुनिक–स्ट्रेंथ–प्रशिक्षणं, क्रीडाविज्ञानम्, बायोमैकेनिक्स, क्रीडा–मनोविज्ञानम्, डेटा–आधारित प्रदर्शन–विश्लेषणं इत्यादयः सुविधाः अत्र उपलब्धाः।
खड्गक्रीडक: विशालः थापरः २०१८–कॉमनवेल्थ–चैंपियनशिप–कांस्य–पदक–प्राप्तिं स्मरति। तेन उक्तम् — “एवं उच्च-प्रदर्शन–केन्द्रं आगत्य भाविष्यस्य क्रीडकाणां प्रदर्शनं क्रान्तिकारीरूपेण परिवर्तयिष्यति।
संगरूरस्य जूनियर–खड्गक्रीडक: सान्या विशेषतया रिकवरी–सिस्टम इति प्रशंसितवती। सा उक्तवती — “हाइड्रोथेरेपी इत्यादि उन्नत–सुविधाः, पोषणं, आवासं, अन्ताराष्ट्रिय–मानक–उपकरणानि च एकस्मिन् परिसरे उपलब्धानि, यत् एतत् केन्द्रं विश्वस्य श्रेष्ठ–केंद्रेषु सम्मेलयति।”एतेन उच्च-प्रदर्शन–केन्द्रस्य उद्घाटनम् भारतीय–खड्गक्रीडायै नवीनं दिशा–निर्देशनं प्रदास्यति, तथा एशियाई–क्रीडा–२०२६ मध्ये पदक–स्वप्नस्य सिद्ध्यै दृढं आधारं लब्धम्।
हिन्दुस्थान समाचार / अंशु गुप्ता