ट्राई–द्वारा डीएनडी एवं माईस्पीड–ऐप इत्यस्य नवीनीकृतसंस्करणं विमोचितम्
स्पैम–निरोधे नेटवर्क–गुणवत्ता परीक्षणे च सहायकः नवदिल्ली, १३ फरवरीमासः (हि.स.) — दूरसञ्चार–नियामक–प्राधिकरणस्य (ट्राई)–अध्यक्ष: अनिलकुमारलाहोटी शुक्रवासरे ट्राई–डीएनडी तथा माईस्पीड–ऐप–नवीनीकृतस्य संस्करणस्य उद्घाटनावसरे उक्तवान् यत् एतत् केवलं रूप
कार्यक्रम में बोलते ट्राई के अध्यक्ष अनिल कुमार लोहाटी


स्पैम–निरोधे नेटवर्क–गुणवत्ता परीक्षणे च सहायकः

नवदिल्ली, १३ फरवरीमासः (हि.स.) — दूरसञ्चार–नियामक–प्राधिकरणस्य (ट्राई)–अध्यक्ष: अनिलकुमारलाहोटी शुक्रवासरे ट्राई–डीएनडी तथा माईस्पीड–ऐप–नवीनीकृतस्य संस्करणस्य उद्घाटनावसरे उक्तवान् यत् एतत् केवलं रूप–संशोधनं नास्ति, किन्तु आधुनिक–प्रौद्योगिकी–आवश्यकतानुसारं मूल–संरचना पुनर्निर्मिती क्रियते।

ट्राई नवीनीकृत–ऐप द्वयं अवांछित–दूरभाषेषु तथा अवांछित–व्यावसायिक–संदेशेषु अंकुशं दातुं, तथा वास्तविक–समय–नेटवर्क–गुणवत्ता–परीक्षणं कर्तुं प्रस्तुतम्। कार्यक्रमस्य सदस्या: ऋतुरमन: एम.पी.तंगीराला च उपस्थितौ।

अध्यक्ष: लाहोटी अवदत् यत् एतानि ऐप–पूर्वसंस्करणानि २०१६ तथा २०१७ तमे वर्षे प्रारब्धानि। समये प्रौद्योगिक्या सॉफ्टवेयरमाध्यमेन संचालन–तन्त्रेण नेटवर्क–संरचनया च उपयोग–पद्धतिषु व्यापक–परिवर्तनम् जातम्, अतः पुनः विकासः आवश्यकः। २०२५ तमे वर्षे अवांछित–व्यापारिक–संचार–सम्बद्धं ३१.०९ लक्षं सूचना: प्राप्ताः, यत्र १७.०६ लक्षं केवलं ट्राई–डीएनडी–ऐप द्वारा प्राप्ता:।

सः अवदत् यत् डिजिटल–संपर्कः सामाजिक–आर्थिक–जीवनस्य आधारः। सर्वकारी–सेवाः, शिक्षा, स्वास्थ्यम्, व्यापार: च गुणवत्तायुक्तं नेटवर्क–अधीनाम्। अतः सेवा–गुणवत्ता तथा संचार–विश्वासः अत्यन्तम् आवश्यकः। उपभोक्तॄण: प्रति आवाहनं यत् स्पैम–सूचनां दातुं तथा नेटवर्क–गुणवत्तानिरीक्षणाय ऐप–अधिकतमं उपयुक्तम्।

नवीनीकृत–डीएनडी–ऐप–मध्ये बहुभाषीया सुविधा, सरल–सूचना–प्रक्रिया, संदर्भ–संख्या–द्वारा स्थिति–निरीक्षणम्, १६०० श्रेणी–अंकस्य ज्ञानम्, द्वि–सिम–सहायतायै तथा प्रचार–संदेश–निरोधनस्य हेतु रुचि–प्रबंधनादय: सुविधाः समाविष्टाः। केवलं अंक–रोधेन कार्यं न भवति, अधिकारिक–मञ्चे सूचना अनिवार्या।

२०२५ तमे वर्षे ७,३१,१२० सूचना अपंजीकृत–उपयोगकर्तृभ्यः निर्गता। ४,७३,०७५ उपरि एक–मासिकी तथा ८९,९३६ उपरि षड्–मासिकी संचार–सीमा। अगस्तमास–२०२४ त: आरभ्य १,५४,०५,४८२ दूरसञ्चार–संसाधनम् अवरुद्धम्। डीएनडी–ऐप–द्वारा कार्यभागः २०२१–१३.१६% इत्यस्मात् २०२५–८४.४३% पर्यन्तं वर्धित:।

हिन्दुस्थान समाचार / अंशु गुप्ता