विद्युत निगमेषु तकनीकीज्ञानां नियोजनम् : ऑनलाइनमाध्यमेन मुख्‍यपरीक्षा 23 फरवरी दिनांके, प्रवेश पत्रम् आरब्धम्
जयपुुरम्, 13 फ़रवरीमासः (हि.स.)। राज्यस्य विद्युन्निगमेषु आईटीआई-प्राविधिक-तृतीयः, संचालक-तृतीयः तथा प्लाण्ट-अटेण्डण्ट-तृतीयः इत्येषां समग्रतया २१६३ पदानां नियुक्त्यर्थं ऑनलाइन-मुख्यपरीक्षायाः आयोजनं एकादशसु जिल्लेषु २३ फरवरी-दिने द्विपार्ययोः विध
विद्युत निगमों में तकनीशियन भर्ती


जयपुुरम्, 13 फ़रवरीमासः (हि.स.)।

राज्यस्य विद्युन्निगमेषु आईटीआई-प्राविधिक-तृतीयः, संचालक-तृतीयः तथा प्लाण्ट-अटेण्डण्ट-तृतीयः इत्येषां समग्रतया २१६३ पदानां नियुक्त्यर्थं ऑनलाइन-मुख्यपरीक्षायाः आयोजनं एकादशसु जिल्लेषु २३ फरवरी-दिने द्विपार्ययोः विधास्यते।

मुख्यपरीक्षायाः योजना पाठ्यक्रमश्च सम्बन्धिनी सम्पूर्णा सूचना विद्युत्निगमानां जालपुटे उपारोपिता अस्ति। मुख्यपरीक्षायाः कालावधिः द्विघण्टात्मकः भविष्यति, यस्मिन् १५० बहुविकल्पीयप्रश्नाः भविष्यन्ति। अशुद्धोत्तरप्रदाने ऋणाङ्कप्रदानस्य अपि व्यवस्था अस्ति। अभ्यर्थिनः विद्युत्निगमानां जालपुटतः स्वप्रवेशपत्राणि अवतारयितुं शक्नुवन्ति। अस्य विषये अभ्यर्थिनः तेषां चलदूरभाषसंख्या तथा ई-मेल माध्यमेन अपि सूचिताः सन्ति। अभ्यर्थिनां सुविधार्थं जालपुटे सूचनापुस्तिकाः अपि उपारोपिताः सन्ति।

उल्लेखनीयं यत् एतेषां २१६३ पदानां नियुक्त्यर्थं प्रारम्भिकपरीक्षायाः परिणामः जनवरी २०२६ मासे घोषितः आसीत्, यस्मिन् रिक्तिसंख्यायाः प्रायः दशगुणाः अभ्यर्थिनः मुख्यपरीक्षायै चयनिताः। मुख्यपरीक्षायै समूह-१ मध्ये २२,८९३, समूह-२ मध्ये ३६०, समूह-३ मध्ये १७५, समूह-४ मध्ये ३६१ अभ्यर्थिनः अर्हतां प्राप्तवन्तः।

नियुक्तेः नोडल-अभिकरणरूपेण विद्युत्-उत्पादन-निगमेन अपि सूचितं यत् मुख्यपरीक्षासु अनुचितसाधनप्रयोगं नकलादिकं च निरोद्धुं अधिककठोराणि उपायानि स्वीकृतानि। अस्मिन् वर्षे प्रथमवारं अभ्यर्थिनां ‘आधार’-पत्रेण सत्यापनम् अपि क्रियिष्यते। सर्वेषु परीक्षाकेन्द्रेषु प्रत्येककक्षे सीसीटीवी-कैमरा स्थापिताः सन्ति, ये परीक्षाकाले सम्पूर्णं समयं दृश्याङ्कनं करिष्यन्ति।

परीक्षाणां सुचारुसञ्चालनार्थं जयपुर-नगरे विद्युत्भवने नियन्त्रणकक्षः स्थापितः अस्ति तथा अभ्यर्थिनां साहाय्यार्थं हेल्पलाइन-केन्द्रम् (९४१४०५६६५५) अपि व्यवस्थापितम् अस्ति।

---------------

हिन्दुस्थान समाचार