Enter your Email Address to subscribe to our newsletters





रामानुज शर्मा
नवदिल्ली, 13 फरवरीमासः (हि.स.)।
देशव्यापिषु धार्मिकस्थलेषु सौन्दर्यीकरणविकासकार्यैः सह जनानां भारतीयसंस्कृतेः परम्परायाः सनातनधर्मस्य च प्रति आस्था श्रद्धा सम्मानश्च वर्धयितुं केन्द्रराज्यसर्वकारौ नानाविधानि योजनानि निर्माति। ताभ्यां स्वनीत्यानुसारं एतेषां तीर्थस्थलानां विकासकार्यं निरन्तरं क्रियते। अस्यैव अन्तर्गतं उत्तरप्रदेशसरकारेण बागपतजनपदे हिंडननद्याः तीरे स्थितस्य प्राचीनस्य सिद्धपीठस्य परशुरामेश्वरपुरामहादेवमन्दिरस्य सौन्दर्यीकरणविकासयोजना सिद्धा कृता अस्ति। अनेन श्रद्धालवः बृहद्सुविधाभिः सह भगवान् शिवस्य भव्यतां दिव्यतां च अनुभवन्ति।प्रदेशसर्वकारेण अस्य प्राचीनमन्दिरस्य समग्रसौन्दर्यीकरणाय विकासाय धार्मिकपर्यटनस्य रोजगारस्य च वृद्धये व्यापकयोजना निर्मिता अस्ति। अस्यां योजनायां चतुश्चत्वारिंशत् कोटि चतुर्विंशतिलक्ष सप्तषष्टिसहस्ररूप्यकाणि व्ययीकर्तुं निश्चयः कृतः। पर्यटनविभागेन प्रथमचरणाय चतुर्विंशत्कोटिरूप्यकाणि आवंटितानि। अनेन पश्चिमोत्तरप्रदेशे धार्मिकपर्यटनस्य महती वृद्धिः भविष्यति तथा अस्य क्षेत्रस्य विशिष्टपहचान अपि भविष्यति।
मन्दिरस्य अस्य विकासेन एकस्मिन् काले त्रिसहस्राणि श्रद्धालवः दर्शनं कर्तुं शक्नुवन्ति, यदा पूर्वं केवलं सहस्रपर्यन्तमेव व्यवस्था आसीत्। श्रद्धालूनां कृते लिफ्टसुविधा, विशेषप्रकाशव्यवस्था, विशालवाहनस्थापकस्थानम्, ध्यानव्यायामकक्षाः, भोजनालयश्च अपि व्यवस्थाप्यन्ते।
परशुरामेश्वरमहादेवमन्दिरसमितेः संयोजकः अरुणशर्मा अवदत् यत् केन्द्रराज्यसर्वकारयोः प्रयत्नः अस्ति यत् सर्वेषां मठमन्दिराणां विकासः क्रियताम्, येन जनानां संस्कृतिपरम्परायाः बोधः दृढीभवेत्। पर्यटनविभागेन स्थानीयजनानां होमस्टे इत्यस्य अवसरः अपि प्रदत्तः, येन तेषां आयवृद्धिः स्यात्।
एषा योजना धार्मिकस्थलानां सौन्दर्यीकरणेन सह स्थानीयपर्यटनस्य विकासं रोजगारस्य बहून् अवसरान् च सृजति। अनेन शुचिता स्वच्छता सदाचारश्च सुदृढीभविष्यन्ति तथा जनानां सनातनधर्मे गाढा आस्था उत्पद्यते।
समितेः अध्यक्षः सुनीलरोहटा अवदत् यत् मुख्ये मन्दिरे ऊर्ध्वाधोभागयोः निर्माणं, पृष्ठभागे मार्गव्यवस्था, सोपाननिर्माणं, मुक्ताकाशरङ्गमञ्चः, द्वे यज्ञशालाः, भोजनालयः, मुख्यद्वारम्, पार्श्वप्राकारनिर्माणं च भविष्यति।
इतिहासतः अपि एतत् स्थलम् अतीव पवित्रम् अस्ति। बागपतजनपदे हिंडननद्याः तीरे महर्षेः जमदग्नेः आश्रमः आसीत्, यत्र सः तपश्चर्यां अकरोत्। तस्य पुत्रः भगवान् परशुरामः अपि अत्रैव तपः कृतवान् गुरुकुलं च स्थापितवान्। परम्परया भीष्मपितामहः कर्णश्च अत्र शिक्षा प्राप्तवन्तौ इति कथ्यते। परशुरामस्य कठोरतपसा प्रसन्नः महादेवः साक्षात् दर्शनं दत्त्वा अत्र पिण्डीरूपेण अवतीर्णः सदा विराजते स्म। तस्मात् एतत् स्थानं परशुरामेश्वरमहादेव इति प्रसिद्धम् अभवत्।
अद्यापि अत्र श्रावणमासे लक्षशः श्रद्धालवः आगत्य जलाभिषेकं पूजनार्चनं च कुर्वन्ति। अत्र पूजा कृत्वा सर्वाः मनोकामनाः सिद्ध्यन्ति इति जनविश्वासः अस्ति। अनेन एतत् मन्दिरं धार्मिकपर्यटनस्य महत्त्वपूर्णं केन्द्रं जातम्।_________
हिन्दुस्थान समाचार