महाशिवरात्रिस्नानपर्वं सकुशलं संपन्नं कारयितुं दृढ़ा व्यवस्था, आवागमनं प्रतिबंधितम्
प्रयागराजः, 13 फ़रवरीमासः (हि.स.)। विश्वप्रसिद्धस्य प्रयागराज-स्थितस्य माघ-मेलायाः अन्तिमस्य महत्त्वपूर्ण-स्नान-पर्वणः सुचारु-सम्पादनार्थं सुदृढाः व्यवस्थाः कृताः सन्ति। श्रद्धालूनां आगमनं वाहन-निक्षेपणं (पार्किंग) च दृष्ट्वा समुचिताः तैयार्यः सम्
माघ मेला के अंतिम महत्वपूर्ण स्नान पर्व महाशिवरात्रि की तैयारी का निरीक्षण करते पुलिस उपायुक्त गंगानगर कुलदीप सिंह गुनावत


प्रयागराजः, 13 फ़रवरीमासः (हि.स.)।

विश्वप्रसिद्धस्य प्रयागराज-स्थितस्य माघ-मेलायाः अन्तिमस्य महत्त्वपूर्ण-स्नान-पर्वणः सुचारु-सम्पादनार्थं सुदृढाः व्यवस्थाः कृताः सन्ति। श्रद्धालूनां आगमनं वाहन-निक्षेपणं (पार्किंग) च दृष्ट्वा समुचिताः तैयार्यः सम्पन्नाः। एषा सूचना शुक्रवासरे माघ-मेला-पुलिस-अधीक्षकः नीरज-कुमार-पाण्डेय इत्यनेन प्रदत्ता।

तेन उक्तं यत् महाशिवरात्रि-स्नान-पर्व १५ फेब्रुवरी-दिने माघ-मेला-क्षेत्रे बहुसंख्यक-स्नानार्थिनां श्रद्धालूनां च आगमनस्य सम्भावनां दृष्ट्वा सुगम-यातायात-व्यवस्थायै प्रवेश-निर्गमन-स्थानानि तथा वाहन-निक्षेपण-स्थलानि निर्धारितानि सन्ति। श्रद्धालुभ्यः विनम्र-आह्वानं यत् ते स्व-वाहनानि निर्दिष्ट-पार्किंग-स्थलेषु एव स्थापयन्तु।

पार्किंग-व्यवस्था

हेलिपैड-पार्किंग तथा किसान-यूनियन-पार्किंग

काली-मार्गेण आगच्छन्तः श्रद्धालवः स्व-लघु-वाहनानि एतेषु स्थलेषु स्थाप्य पदयात्रया अपर-संगम-मार्गेण संगम-स्नान-घाटं, हनुमान-घाटं, राम-घाटं च गन्तुं शक्नुवन्ति। स्नानानन्तरं त्रिवेणी-वापसी-मार्गेण पुनः पार्किंग-स्थलं प्राप्य स्व-गन्तव्यं प्रत्यागच्छेयुः।

प्लॉट-संख्या १७ पार्किंग

जवाहरलाल-नेहरू-मार्ग, एम्-जी-मार्ग तथा बैरहना-मार्गतः आगच्छन्तः गुरुवाहनानि तत्र स्थापयित्वा पदयात्रया स्नान-घाटान् गच्छेयुः।

गल्ला-मण्डी-पार्किंग

ततः पदयात्रया मोरी-रैम्प-मार्गेण किलाघाटं, शिवाला-घाटं, दशाश्वमेध-घाटं च प्राप्नुयुः।

नागवासुकी-पार्किंग-

फाफामऊ-मार्गतः आगच्छन्तः वाहनानि तत्र स्थाप्य नागवासुकी-स्नान-घाटं गन्तुं शक्नुवन्ति।

झूंसी-क्षेत्रे पार्किंग

ओल्ड-जीटी-मार्गेण आगत्य त्रिवेणी-मार्गे वाहन-निक्षेपणं कृत्वा ऐरावत-स्नान-घाटे स्नानं कर्तुं शक्यते। पांटून-सेतु-मार्गेण पुनरागमनं भविष्यति।

सतुआ-बाबा-आश्रम-पार्किंग

लघु-वाहनानि तत्र स्थाप्य पदयात्रया स्नान-घाटं गन्तव्यम्।

महुआबाग-पार्किंग

महद्-वाहनानि तत्र स्थाप्य त्रिवेणी-मार्गेण स्नानार्थं गन्तुं शक्यन्ते।

अरैल-क्षेत्रे देवरख-कछार-पार्किंग

तथा नवप्रयागम्-पार्किंग इत्येतयोः वाहनानि स्थाप्य सोमेश्वर-महादेव-घाटं, अरैल-घाटं, चक्रमाधव-घाटं च गन्तुं शक्यते।

मन्दिर-यातायात-व्यवस्था

मनकामेश्वर-मन्दिरम्

एडीसी-मैदान-पार्किंग तथा दधिकान्दो-पार्किंग-स्थले वाहनानि स्थाप्य पदयात्रया दर्शनं कर्तुं शक्यते।

नागवासुकी-मन्दिरम्

सोमेश्वर-महादेव-मन्दिरं, निर्दिष्ट-पार्किंग-स्थले वाहन-निक्षेपणं कृत्वा पदयात्रया जलाभिषेकः कर्तव्यः।शंकर-विमान-मण्डपम् जगदीश-मार्गेण पदयात्रया गमनागमनं भविष्यति।

मार्ग-परिवर्तनम्

बैरहना-दिशः आगच्छन्ति वाहनानि सेमेट्री-मार्गस्थित-रामजानकी-मन्दिरात् दक्षिणतः त्रिवेणी-मार्गेण सतीशाह-चौराहा, कोठापार्चा, लाउडर-मार्गं गत्वा वामतः गऊघाट-मार्गेण पुरातन-सेतुम् अतिक्रम्य स्व-गन्तव्यं प्राप्स्यन्ति।

तथैव गऊघाटात् यमुना-बैंक-रोड-यू-सर्किल-दिशः आगच्छन्ति वाहनानि मनकामेश्वर-मन्दिरं प्रति न आगमिष्यन्ति, अपि तु पुरातन-सेतु-दिशि परिवर्तित-मार्गेण प्रेषितानि भविष्यन्ति।

आपत्काल-चिकित्सा-सेवायुक्तानि एम्बुलेन्स-वाहनानि तथा प्रशासनिक-कार्येषु नियुक्तानि वाहनानि एतस्मात् मार्ग-परिवर्तन-नियमात् मुक्तानि भविष्यन्ति।

---

हिन्दुस्थान समाचार