सेवानिवृत्तो ब्रिगेडियरपदासीनो हरीश चंद्र जोशी मुख्यमंत्रिरक्षणकोषे दत्तवान् 10 लक्षं रुप्यकाणि
-दैवीय-आपदाभ्यः प्रभावितानां बालानां शिक्षायै, स्वास्थ्याय आजीविकायै च दत्तं योगदानम्देहरादूनम् , 13 फरवरीमासः (हि.स.)। सेवानिवृत्तः ब्रिगेडियर हरीशचन्द्र जोशी शुक्रवासरे मुख्यमन्त्रिणे पुष्कर सिंह धामी महोदयाय मुख्यमंत्री राहतकोषाय दश लक्ष रूप्यका
सेवानिवृत्त ब्रिगेडियर हरीश चंद्र जोशी मुख्यमंत्री पुष्कर सिंह धामी को चेक सौंपते हुए।


-दैवीय-आपदाभ्यः प्रभावितानां बालानां शिक्षायै, स्वास्थ्याय आजीविकायै च दत्तं योगदानम्देहरादूनम् , 13 फरवरीमासः (हि.स.)। सेवानिवृत्तः ब्रिगेडियर हरीशचन्द्र जोशी शुक्रवासरे मुख्यमन्त्रिणे पुष्कर सिंह धामी महोदयाय मुख्यमंत्री राहतकोषाय दश लक्ष रूप्यकाणां मूल्यस्य धनादेशं समर्पितवान्। एषः सहयोगः राज्ये पूर्वं जातासु दैवीय आपदासु राहत तथा बचावकार्येषु, तथा आपदाप्रभावितानां दरिद्र वंचित बालकानां शिक्षायाः स्वास्थ्यस्य आजीविकायाश्च साहाय्यार्थं प्रदत्तः अस्ति।

वसन्त विहार देहरादून निवासी मूलतः जहरिखाल पौड़ी गढ़वाल प्रदेशसम्भूतः ब्रिगेडियर जोशी मुख्यमन्त्रिणं पुष्कर सिंह धामीं समागत्य एषं धनादेशं समर्पितवान्।

मुख्यमन्त्री उक्तवान् यत् अनुभवी सैन्याधिकारीरूपेण ब्रिगेडियर जोशीस्य एषा पहल राज्यस्य समाजस्य च समग्रविकासे तस्य प्रतिबद्धतां दर्शयति तथा अन्यान् अपि सेवायै सहयोगाय च प्रेरयति।

अस्मिन् अवसरे ब्रिगेडियर एच के जोशिनः पुत्री शानू जोशी अपि उपस्थिताऽआसीत्।----

हिन्दुस्थान समाचार