विश्वरेडियोदिवसः 2026 - रायपुरे अद्य रेडियो-आर्टिफिशियल-इंटेलिजेंस इत्यस्मिन् विषये राष्ट्रीयमंथनम्
रायपुरम्, 13 फरवरीमासः (हि.स.)। विश्व-रेडियो-दिवसः २०२६ इत्यस्य अवसरस्य उपलक्ष्ये आकाशवाणी-रायपुरम्, छत्तीसगढ़-राज्ये, यूनेस्को-संस्थायाः सहयोगेन अद्य शुक्रवासरे विश्व-रेडियो-दिवस-सम्बद्धा संगोष्ठी आयोजयति। एषा संगोष्ठी अस्य वर्षस्य आधिकारिक-विष
विश्व रेडियो दिवस  फाइल फाेटाे


रायपुरम्, 13 फरवरीमासः (हि.स.)। विश्व-रेडियो-दिवसः २०२६ इत्यस्य अवसरस्य उपलक्ष्ये आकाशवाणी-रायपुरम्, छत्तीसगढ़-राज्ये, यूनेस्को-संस्थायाः सहयोगेन अद्य शुक्रवासरे विश्व-रेडियो-दिवस-सम्बद्धा संगोष्ठी आयोजयति।

एषा संगोष्ठी अस्य वर्षस्य आधिकारिक-विषय-वस्तुनि केन्द्रिता अस्ति। अस्यां संगोष्ठ्यां एतस्मिन् विषये विचार-विमर्शः भविष्यति यत् कथं कृत्रिम-बुद्धिमत्ता रेडियो-प्रसारणे मानवीय-स्वरं केन्द्रस्थं स्थापयित्वा विषय-वस्तु-निर्माणे, श्रोता-सहभागितायां तथा प्रसारण-प्राप्यतायां सुदृढीकरणं कर्तुं शक्नोति। अयं विषयः प्रसारण-व्यवस्थायां कृत्रिम-बुद्धिमत्तायाः वर्धमानां भूमिकां अपि प्रकाशयति।

एआई-प्रणाल्याः माध्यमेन विषय-वस्तु-निर्माणं, अभिलेखनं, अनुवाद-कार्यं, श्रोतृ-भागीदारी, व्यापक-प्राप्यता च सुलभतया संवर्ध्य रेडियो अधिकं प्रभावी समावेशी च कर्तुं शक्यते इति अस्मिन् विषय-वस्तुनि निर्दिष्टम्। सहैव एतदपि प्रतिपाद्यते यत् प्रौद्योगिकी केवलं सहायक-साधनं भवति, सा कदापि मानवीय-स्वरस्य स्थानं न गृह्णाति। सम्पादकीय-विवेकः विश्वसनीयता च एव रेडियो-माध्यमस्य वास्तविक-परिचयः अस्ति।

अस्मिन् अवसरे प्रसार-भारती-संस्था तथा यूनेस्को-संस्था संयुक्त-तत्त्वावधानेन छत्तीसगढ़-राज्यस्य राजधानी-रायपुर-नगरे विशेष-कार्यक्रमः अपि आयोज्यते। छत्तीसगढ़-राज्यस्य मुख्यमन्त्री विष्णुदेव साय मुख्य-अतिथि-रूपेण कार्यक्रमे सहभागं करिष्यति।

कार्यक्रमे आकाशवाण्याः महानिदेशकः राजीव जैन, यूनेस्को-संस्थायाः सञ्चार-सूचना-क्षेत्रस्य क्षेत्रीय-सलाहकारः हज्जाज माले, विविध-क्षेत्रेषु विशेषज्ञाः तथा पद्मश्री-पुरस्कार-विजेतारः अपि सहभागिनः भविष्यन्ति।

हिन्दुस्थान समाचार