वीरपुरे महादेव–स्थापनायां भव्य–कलश-शोभायात्रा
सुपौलनगरम्, १३ फरवरीमासः (हि.स.)। वीरपुरे धार्मिक–आयोजनस्य भव्यं दृश्यं शुक्रवासरे दृष्टम्, यदा श्री–श्री १०८ नर्मदेश्वर–महादेवस्य स्थापनाया: कृते कलश–शोभायात्रा निर्गता। अस्यां शोभायात्रायाम् शतश: महिलाः सम्मिलिताः, याभि: स्वस्य श्रद्धा–भक्त्या रथ
शोभायात्रा


सुपौलनगरम्, १३ फरवरीमासः (हि.स.)। वीरपुरे धार्मिक–आयोजनस्य भव्यं दृश्यं शुक्रवासरे दृष्टम्, यदा श्री–श्री १०८ नर्मदेश्वर–महादेवस्य स्थापनाया: कृते कलश–शोभायात्रा निर्गता। अस्यां शोभायात्रायाम् शतश: महिलाः सम्मिलिताः, याभि: स्वस्य श्रद्धा–भक्त्या रथस्य शोभा संवर्धिता।

शोभायात्रायाम् “हर हर महादेव” इत्येतै: जयकारै: सम्पूर्णं क्षेत्रं गम्भीरं गूञ्जितम्। उपस्थितैः जनैः धार्मिक–गीतानां मन्त्र–उच्चारणस्य च माध्यमेन उत्सवः आनन्ददायकः अभवत्। आयोजन–स्थले स्थानिकजनाः श्रद्धालवश्च सम्मिलित्वा अस्मिन् धार्मिक–उत्सवे भागं गृहीतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता