जनानां कृते शुद्ध–जलस्य निरन्तरं उपलब्धता सुनिश्चितं कुर्वन्तु, तत्र कश्चन अवरोधः न भवेत् — नीतीशकुमारः
मुख्यमन्त्रिणा गंगाजी–राजगृह–जलाशयस्य निरीक्षणं कृतम्, मलमास–मेला–२०२६–सज्जाया: विषये निर्देशाः दत्ताः पटनानगरम्, १४ फरवरीमास: (हि.स.)। नीतीशकुमार: शनिवासरे बिहार–राज्यस्य नवादा–जनपदे नारदीगञ्ज–अञ्चले मोतनाजे–ग्रामस्य समीपे अवस्थितस्य गंगाजी–राजगृ
मुख्यमंत्री राजगीर दौरे के दौरान अधिकारियों को निर्देश देते हुए


मुख्यमन्त्रिणा गंगाजी–राजगृह–जलाशयस्य निरीक्षणं कृतम्, मलमास–मेला–२०२६–सज्जाया: विषये निर्देशाः दत्ताः

पटनानगरम्, १४ फरवरीमास: (हि.स.)। नीतीशकुमार: शनिवासरे बिहार–राज्यस्य नवादा–जनपदे नारदीगञ्ज–अञ्चले मोतनाजे–ग्रामस्य समीपे अवस्थितस्य गंगाजी–राजगृह–जलाशयस्य निरीक्षणं कृतवान्। सः जलाशय–परिसरं परिभ्रम्य तत्र व्यवस्थाः अवलोकितवान् तथा सम्बन्धित–अधिकारिभ्यः आवश्यक–दिशा–निर्देशान् अददात्।

अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तं यत् गंगाजी–जल–आपूर्ति–योजनाया: अन्तर्गतं गया–नगरम्, बोधगया–क्षेत्रम्, नवादा–जनपदः तथा राजगृह–नगरं च शुद्ध–पेय–जलेन आपूर्यन्ते। सः विभागीय–अधिकारिणः निर्देशितवान् यत् शुद्ध–पेय–जलस्य आपूर्तिः निरन्तरं प्रवर्तताम्, तत्र केनापि प्रकारेण बाधा न जायेत— अस्य विशेषं ध्यानं दातव्यम्। सार्धमेव जलाशय–परिसरस्य स्वच्छता, सुव्यवस्था तथा पर्यावरण–अनुकूलता सुनिश्चितीकरणे बलं दत्तवान्।

तदनन्तरं मुख्यमन्त्री नालन्दा–जनपदे राजगृह–नगरे स्थितस्य गृद्धकूट–भवनस्य निरीक्षणं कृतवान् तथा तत्र व्यवस्थाः अवगतवान्। गृद्धकूट–भवनात् नवीन–रोप–वे–मार्गस्य अपि अवलोकनं कृत्वा पर्यटकेभ्यः उपलब्ध–सुविधानां समीक्षां कृतवान्। सः अधिकारिणः अवदत् यत् सर्वाः व्यवस्थाः सुचारुरूपेण सञ्चालिताः स्युः, येन पर्यटकानां कापि असुविधा न भवेत्।

तत्पश्चात् मुख्यमन्त्रिणा राजगृह–अन्ताराष्ट्रिय–सम्मेलन–केन्द्रे मलमास–मेला–२०२६–सज्जाया: समीक्षां कृतवान्। नालन्दा–जनपदस्य जनपदाधिकारी कुण्डनकुमारः सज्जाया: विषये विस्तृतं विवरणं समर्पितवान्। मुख्यमन्त्रिणा निर्देशः दत्तः यत् मलमास–मेला–२०२६–सज्जा: समयबद्धतया तथा व्यापक–स्तरे सम्पादनीयाः, यतोह्यस्मिन् अवसरे विशाल–संख्यायां श्रद्धालवः आगच्छन्ति।मुख्यमन्त्रिणा अपि उक्तं यत् श्रद्धालूनां कृते आवास–व्यवस्था, पेय–जलम्, स्वच्छता, चिकित्सीय–सेवा, सुरक्षा तथा अन्य–मूलभूत–सुविधानां समुचित–व्यवस्था सुनिश्चितीक्रियताम्। घट्टानां स्वच्छता, आवागमन–मार्गाणां मरम्मतिः तथा यातायात–प्रबन्धनविषये विशेष–ध्यानं दातव्यम् इति सः निर्देशितवान्। अस्मिन् वर्षे अपि बहूनां श्रद्धालूनां आगमन–सम्भावना अस्ति, अतः सर्वाः आवश्यक–सज्जा: पूर्वमेव पूर्णाः कार्याः इति सः अवदत्।

सुरक्षा–व्यवस्थां प्रति कठोर–निर्देशान् दत्त्वा मुख्यमन्त्रिणा उक्तं यत् मेला–परिसरे प्रशिक्षित–आरक्षी–बलस्य पर्याप्त–नियोजनं क्रियताम्, येन व्यवस्था नियन्त्रणाधीना तिष्ठेत् तथा श्रद्धालवः सुरक्षिताः अनुभवेरन्।

अस्मिन् निरीक्षण–कार्यक्रमे राज्यस्य ग्रामीण–विकास–मन्त्री श्रवणकुमारः, सांसदः कौशलेन्द्रकुमारः, विधायकः कृष्णमुरारिशरणः प्रेम–मुखिया वा, विधायकः कौशलकिशोरः, अन्ये जनप्रतिनिधयः वरिष्ठ–अधिकारिणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता