Enter your Email Address to subscribe to our newsletters

अररिया 14 फरवरीमासः(हि.स.)।
फारबिसगंज-नगरस्य शंकरपुर शिव मंदिर द्विशताधिक-पञ्चाशद्वर्ष-प्राचीनम् अस्ति। अत्र महाशिवरात्रौ लक्षशः शिवभक्ताः समागच्छन्ति। महाशिवरात्रि-पर्वणः निमित्तं मन्दिर-प्रबन्धन-समित्या सर्वाः व्यवस्थाः कृताः। मन्दिरस्य वर्णलेपनं विशेष-शौच-व्यवस्था च सम्पन्ना।
महाशिवरात्रौ निर्गच्छन्त्याः शिव-बारातायाः कृते विस्तीर्ण-तैयारी क्रियते। अत्र स्थितं शिवलिङ्गम् आपरूपी (स्वयम्भू) इति मन्यते। वर्तमान-पूजारी विनोद-गिरिः, सुरेन्द्र-गिरिः, सचिवः रंजन-मण्डलः च अवदन् यत् अस्य शिवलिङ्गस्य पूजा तेषां कुल-परम्परा अस्ति, या तेषां प्रपितामहात् त्रयाणां संततीनां पूर्वादारभ्य प्रवर्तते। चत्वारिंशद्वर्षेभ्यः पूर्वं ग्राम्य-श्रद्धालुभिः मन्दिर-निर्माणं कृतम्। तस्मात् पूर्वं अत्र कुटी-रूपे गृहे भक्ताः भगवान् शिवशंकरस्य पूजां कुर्वन्ति स्म।
सैफगंज पंचायत-अन्तर्गतं शंकरपुर-ग्रामस्य पहचान एतेन शिवमन्दिरेण सम्बद्धा अस्ति। शिवमन्दिरस्य कारणेन एव ग्रामस्य नाम “शंकरपुर” इति अभवत्। एतत् मन्दिरं मनोकामना-पूर्तेः केन्द्रम् इति जनाः मन्यन्ते।
महाशिवरात्रौ लक्षाधिकाः भक्ताः जलाभिषेकाय आगच्छन्ति। स्थानीय-जनाः वदन्ति यत् अस्य मन्दिरस्य आद्य-निर्माण-कालः अज्ञातः। प्रबन्धन-समितेः सचिवः रंजन-मण्डलः अवदत् यत् अस्मिन् वर्षे मेले शौच-व्यवस्था तथा सुरक्षा-व्यवस्था विषये विशेष-चिन्ता कृता। सुरक्षार्थं सीसीटीवी-कैमरा-यन्त्राणि स्थापितानि। द्विलक्षाधिक-श्रद्धालूनां जलाभिषेकस्य अपेक्षा अस्ति; तस्मात् परवाहा पुलिस चौकी-जवानैः सह शताधिक-स्वयंसेवकाः श्रद्धालूनां साहाय्यार्थं उपस्थिताः भविष्यन्ति।
चतुर्दिनात्मकस्य अस्य मेले कोटि-रूप्यक-परिमिता क्रय-विक्रय-व्यवस्था भवति। अत्र जनानाम् आस्था अतीव गाढा; न केवलं समीप-जनपदेभ्यः, अपि तु नेपाल-देशात् अपि श्रद्धालवः आगच्छन्ति। महाशिवरात्रौ शतशः बालकानां मुण्डन-संस्कारः अपि क्रियते। सच्चित्तेन याचिताः कामनाः भोलेनाथेन पूर्यन्ते इति विश्वासः अस्ति।
मेलागतसज्जासम्बन्धे स्थानीय-समितेः सचिवः रंजन-मण्डलः, अध्यक्षः पंकज-कुमारः, उपाध्यक्षः रामानन्द-पासवानः, कोषाध्यक्षः सत्यनारायण-यादवः तथा अन्ये बहवः सदस्याः युवकाः च सक्रियतया नियोजिताः सन्ति।
हिन्दुस्थान समाचार