उत्तरप्रदेशस्य अर्थव्यवस्थायां महिलानां सहभागिता सार्धद्वि–गुणातीतं वर्धिता
लखनऊनगरम्, १४ फरवरीमास: (हि.स.)। योगी-आदित्यनाथस्य नेतृत्वे गतनववर्षेषु उत्तर प्रदेश–राज्ये महिलानां श्रम–बल–सहभागिता–दरः १३ प्रतिशततः वर्धित्वा ३६ प्रतिशतं प्रति प्राप्तः। अनेन राज्यस्य विकासे नूतना गतिः प्राप्ता। एतेषु एव वर्षेषु राज्यस्य सकल–राज
मुख्यमंत्री योगी आदित्यनाथ


लखनऊनगरम्, १४ फरवरीमास: (हि.स.)। योगी-आदित्यनाथस्य नेतृत्वे गतनववर्षेषु उत्तर प्रदेश–राज्ये महिलानां श्रम–बल–सहभागिता–दरः १३ प्रतिशततः वर्धित्वा ३६ प्रतिशतं प्रति प्राप्तः। अनेन राज्यस्य विकासे नूतना गतिः प्राप्ता। एतेषु एव वर्षेषु राज्यस्य सकल–राज्य–गृह–उत्पादः (GSDP) अपि उल्लेखनीयतया वर्धितः। २०१७ तमे वर्षे य: प्रायः १३ लक्ष–कोटि–रूप्यकाणि आसीत्, स: २०२६–२७ वित्तीयवर्षे ३६ लक्ष–कोटि–रूप्यकाणां दिशि अग्रसर: अस्ति।

राज्य–सर्वकारस्य प्रवक्त्रा शनिवासरे अवदत् यत् महिलानां श्रम–बल–सहभागिता–दरे प्रत्येक–एक–प्रतिशत–वृद्ध्या सकल–राज्य–गृह–उत्पादे ०.५ तः १ प्रतिशत–पर्यन्तं अतिरिक्त–वृद्धिः भवति। उत्तर प्रदेशे योगी-आदित्यनाथस्य नेतृत्वे अर्थशास्त्रस्य अयं सिद्धान्तः व्यवहारतः सिद्धः इव दृश्यते। न केवलम्, महिला–कार्यबलस्य वृद्ध्या उत्पादन–क्षमता, श्रम–उत्पादकता तथा राज्यस्य कर–आधारः—एते सर्वे समानान्तरतया विस्तारिताः सन्ति।

महिलाः ‘विकास–बहुगुणकाः’ अभवन्

महिलानां आय–वृद्ध्या गृह–उपभोगे वृद्धि: अभवत्, येन सूक्ष्म–लघु–मध्यम–उद्यम–(MSME)–गतिविधयः तथा सेवा–क्षेत्रं निरन्तरं वेगं लभते। ग्राम्य–स्व–सहायता–समूहाः, दुग्ध–उद्योगः, कृषि–आधारित–उद्यमाः इत्येतेभ्य: आरभ्य नगर–सेवा–क्षेत्र–पर्यन्तं महिलाः अद्य ‘विकास–बहुगुणक’–भूमिकां निर्वहन्ति।

ट्रिलियन–डॉलर–अर्थव्यवस्थायाः मार्गं सरलं करिष्यन्ति महिलाः

नीतिगत–स्तरे महिला–सशक्तीकरणं, कौशल–विकासः तथा स्वरोजगार–सम्बद्ध–कार्यक्रमाः इत्येतैः उत्तर प्रदेशे आर्थिक–सहभाग–परिधिः शीघ्रं विस्तरति। यदि एषा एव गतिः अविच्छिन्ना तिष्ठेत्, तर्हि उत्तरप्रदेशस्य ट्रिलियन–डॉलर–अर्थव्यवस्थायाः मार्गे महिलानां भूमिका निर्णायिका भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता