Enter your Email Address to subscribe to our newsletters

—गौरी केदारेश्वरस्य कृता आरती, भारतय सुख समृद्ध्योः प्रार्थितः आशीर्वादः
वाराणसी, 14 फरवरीमासः (हि.स.)।
महाशिवरात्रेः एकस्मिन् दिने पूर्वं शनिवासरे उत्तरप्रदेशस्य वाराणसीनगरे केदारघाटे स्वच्छताअभियानं संचालितम्, प्रकृतिसंरक्षणाय शिवसन्देशः अपि प्रदत्तः। नमामिगङ्गासंस्थायाः सदस्यैः घाटे विशेषस्वच्छताअभियानानन्तरं गौरीकेदारेश्वरस्य आरार्तिका कृता, भारतस्य सुखसमृद्धये आशीर्वादः अपि प्रार्थितः।
अभियाने कार्यकर्तारः केदारघाटस्थितां शिवकचहरीं अन्यान् घाटांश्च स्वच्छीकर्तुं जनान् जागरूकान् अकुर्वन्। स्वच्छताअभियानस्य अन्तर्गतं गङ्गातीरे स्थानस्थानस्थं कूडकच्रं सदस्यैः सम्यक् स्थानेषु स्थापितम्। घाटेषु श्रमदानानन्तरं तत्र उपस्थितान् पर्यटकान् सामान्यजनांश्च गङ्गां घाटांश्च स्वच्छान् धारयितुं शपथं ग्राहयामासुः। पतितपावनीमातुः गङ्गायाः अविरलधारायाः निर्मलतया प्रवाहाय तां च सदा स्वच्छां रक्षितुं कार्यकर्तारः संकल्पिताः।
अभियानस्य नेतृत्वं कृत्वा गङ्गासेवकः नगरनिगमस्य स्वच्छताब्राण्डएम्बेसडरः राजेशशुक्लः अवदत् यत् ब्रह्माण्डस्य महान् पर्यावरणविद् भगवान् शिवस्य उपासनापर्व महाशिवरात्रिः प्रकृतिसंरक्षणस्य सन्देशं ददाति। भगवान् शिवस्य परिवारस्य प्रकृत्या सह विशेषः सम्बन्धः मन्यते। प्रकृतेः सम्यक्संरक्षणमेव शिवत्वम् इति। सः उक्तवान् यत् भगवान् शिवः विश्वस्य महान् पर्यावरणविद् अस्ति, यतः सः स्वयं प्रकृतेः तत्त्वस्वरूपः। पञ्चतत्त्वैः पृथ्वी जल वायु अग्नि आकाश इत्येतैः शिवस्य सम्बन्धः अस्मान् प्रकृतेः सम्मानसंरक्षणयोः बोधं ददाति, यथा गङ्गाजलस्य सम्यक् व्यवस्थापनं पार्थिवशिवलिङ्गपूजनं च। अतः शिवपूजा केवलं कर्मकाण्डः न, अपितु प्रकृतिप्रति अस्माकं दायित्वस्य तस्याः संरक्षणे प्रतिबद्धतायाः च प्रतीकः अस्ति। अस्मिन् प्रत्येकः जनः प्रकृतेः हिताय लघुलघुकर्माणि कर्तुं प्रेरणां लभते।
आयोजने आयुषगुप्तः सुषमागुप्ता ऋषिकासिंहः तरक्षसिंहः इत्यादयः पूर्णोत्साहेन सहभागित्वं कृतवन्तः।
---------------
हिन्दुस्थान समाचार