Enter your Email Address to subscribe to our newsletters

जींदनगरम्, १५ फरवरीमासः (हि.स.)। हरियाणा–राज्यस्य सामाजिक–न्याय–अधिकारिता–मन्त्री कृष्णकुमार: बेदी अवदत् यत् भारतीय–जनता–पक्षस्य सर्वकार गौः, गङ्गा तथा गीता–इत्येतेषु विश्वासं वहमान: सर्वकार: अस्ति, तथा प्रदेश–सर्वकारेण गौ–सेवायै कृषकाणां हितार्थं च निरन्तरं कार्यं क्रियते।
कैबिनेट–मन्त्री रविवासरे अलेवा–ग्रामे स्थितायां जय–बाबा–धुनेवाले–विकलाङ्ग–गौशालायाः वार्षिकोत्सवे मुख्यातिथिरूपेण उपस्थितः आसीत्। अस्मिन् कार्यक्रमे सः गौशालायै अलेवा–ग्रामस्य वाल्मीकि–चौपालाय च एकादश–एकादश–लक्ष–रूप्यकाणां धनराशिं प्रदातुं घोषणां कृतवान्। अस्मिन् अवसरे तेन सह उचाना–विधानसभा–क्षेत्रस्य विधायकः देवेन्द्र: अत्री तथा हरियाणा–गौ–सेवा–आयोगस्य अध्यक्षः श्रवणगर्ग: विशेषरूपेण उपस्थिताः आसन्।
मन्त्री कृष्ण–कुमार–बेदी अवदत् यत् पूर्वेषु सर्वकारेषु गौशालानां कृते केवलं द्वि–कोटि–रूप्यकाणां वित्तविवरणम् आसीत्। ततः अनन्तरं भारतीय–जनता–पक्षस्य पूर्व–मुख्यमन्त्रिणः मनोहरलालस्य सर्वकारेण प्रायः चतुश्शत–कोटि–रूप्यकाणां वित्तवृद्धिः कृता, तथा वर्तमान–मुख्यमन्त्रिणः नायबसिंहसैनीन: सर्वकारेण तत् वित्तविवरणं वर्धयित्वा पञ्च–शत–पञ्च–सप्तति–कोटि–रूप्यकाणि कृतानि।
सः अवदत् यत् सर्वकारस्य योजनानां माध्यमेन गौशालासु गवां प्रजाति–सुधाराय विशेष–योजनाः कार्यान्विताः सन्ति, येन दुग्ध–उत्पादनस्य वृद्धिः पशुपालकानां आयवृद्धिश्च सुनिश्चिता भवति। सः जनान् अपि आह्वयन् अवदत् यत् गृहेषु अपि गवां पालनं क्रियताम्, येन गौ–सेवया सह दुग्ध–उत्पादनवृद्धिः आय–साधनं च भवेत्।
कार्यक्रमे उपस्थितः उचाना–विधायकः देवेन्द्र–चतुर्भुज–अत्री अवदत् यत् गौशालायाः सर्वासां याचनानां पूर्त्यर्थं सः प्रतिबद्धः अस्ति, तथा भारतीय–संस्कृतौ गौः मातृत्वेन पूज्यते इति सः स्मारितवान्।वक्तव्ये वक्तुम् उपक्रम्य सः अवदत् यत् सर्वकारेण सर्ववर्गाणां कृते अनेका: कल्याणकारी–योजनाः सञ्चालिताः सन्ति। १८ फरवरीमासे उचाना–भूमौ मुख्यमन्त्री नायब–सिंह–सैनी आगमिष्यति इति सूचयन् सः क्षेत्रवासिनः आह्वानं कृतवान् यत् अधिकाधिक–संख्यया संचलने सहभागिन: भवन्तु।
अस्मिन् अवसरे हरियाणा–गौ–सेवा–आयोगस्य अध्यक्षः श्रवण–गर्गः अवदत् यत् हरियाणा–प्रदेशे गौ–सेवायाः सशक्तीकरणाय प्रदेश–सर्वकारेण निरन्तरं प्रभावी–पदानि गृह्णाति। प्रदेशस्य गौशालासु सौर–ऊर्जा–संयन्त्राणां स्थापना–योजना अपि प्रवर्तिता अस्ति, येन गौशालाः विद्युत्–विषये आत्मनिर्भराः भवितुं शक्नुयु:।
हिन्दुस्थान समाचार / अंशु गुप्ता