Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १५ फरवरीमासः (हि.स.)। महाशिवरात्रेः पवित्रावसरे सर्वं राष्ट्रं शिवमयम् अभवत्। मन्दिरेषु हर-हर महादेव इत्यस्य जयघोषः गुञ्जति तथा श्रद्धालवः भक्ति–भावेन भोलेनाथस्य आराधनायां लीनाः सन्ति। मध्यप्रदेशस्य राजधानीभोपालमध्ये अपि आस्थायाः अद्वितीय: उत्साहः द्रष्टव्यः। नगरस्य प्रमुखेषु शिवालयेषु प्रभाते एव दर्शन–अभिषेकाय दीर्घाः शृङ्खलाः दृश्यन्ते। भव्या शिव–बारयात्रा विशेषतया आयोजयिता अस्ति।महाशिवरात्रेः दिवसे राजधानीभोपालमध्ये भव्या शिव–बरयात्रा प्रातः ११ वादने पुरातननगरस्थितात् शिवालयभवनात् आरभ्यते। शोभायात्रा क्रमशः सिन्धी–मार्केट, जनकपुरी–हनुमानगंज, मंगलवारा, ट्रान्सपोर्ट–एरिया, इतवारा, चिंतामन–चतुष्पथ:, गणेश–चतुष्पथ:, सावरकर–चतुष्पथ:, लखेरापुरा इत्यादि-स्थानानि गत्वा रात्रौ १० वादने माताभवानीमन्दिरं प्राप्य पारम्परिक–वरमाला–परम्परा सम्पत्स्यते। आयोजन–समितेः संयोजकः सञ्जय: अग्रवाल: अवदत् – “बरयात्रामार्गे गृहं गृहं पूजन–स्वागताय व्यापकः प्रबन्धः कृतः। सहस्रश: सामाजिक–संस्थाना:, विभिन्नसमाजाः तथा न्यासा: स्व–स्वमंचेभ्यः शोभायात्रायाः स्वागतं करिष्यन्ति। सम्पूर्णं मार्गं आकर्षक–सज्जा–प्रकाशेन सज्जीकृतम् अस्ति।”
बड़वाले महादेवमन्दिरे मुख्यमन्त्री डॉ.मोहनयादवः प्रातः १० वादने आगमिष्यति। स: भगवत: शिवस्य दर्शनं, पूजन-अर्चनं च कृत्वा दिव्य–सवारी–कार्यक्रमे सम्मिलिष्यति।
वरयात्राया: मुख्यम् आकर्षणम् – वरस्वरूपेण चन्दन–नन्दि उपरि आसीनः बाबा बटेश्वरः। शोभायात्रायाः रथे विराजमानः तेषां दिव्यस्वरूपं श्रद्धालूनां विशेषं आकर्षणं भविष्यति। प्रदेशस्य प्रसिद्धवाद्यदलानि, विभिन्नप्रदेशतः आगतानि नृत्यदलानि तथा सुन्दर्य: प्रदर्शिन्य: शोभायात्रायाः शोभां वर्धयिष्यन्ति। अस्मिन वर्षे एकविशेषप्रयत्नानुसारं युवती–दमरू–दलस्य भागे प्रथमवारं ५० बालिकाः सम्मिलन्ति, या: डमरूवादनं कृत्वा उत्सवाय नवीन–ऊर्जा प्रदास्यन्ति। आयोजनं बड़वाले महादेवमन्दिर-सेवासमिति- न्यासेन कृतम्। आयोजकाः श्रद्धालूनां अनुशासनं तथा धार्मिकगरिमां रक्षितुं आवाहनं कृतवन्तः।बैरागढे २२ वर्षेभ्य: पालिता परम्परा
सन्त-हिरदाराम-नगर (बैरागढ़) स्थिते संकट-मोचन-खेड़ापति-हनुमान-मन्दिरे अतीतेभ्य: २२ वर्षेभ्य: महाशिवरात्रेः उत्सवः भव्यरूपेण आयोज्यते। प्रभाते शिवाभिषेकः, यज्ञं तथा पूजनं कृत्वा मध्यान्हे भव्या शिव–वरयात्रा निर्गमिष्यति। डमरूदलं, हस्ति–अश्वयात्रा, वाद्यं तथा विभिन्नदेवी–देवतानां प्रदर्शिन्य: शोभायात्रायाः अङ्गत्वेन भविष्यन्ति। रात्रौ प्रसादवितरणस्य च आयोजनं भविष्यति।उज्जैनमध्ये ४४ होरापर्यन्तं उद्घटित: दरबारः धार्मिक–नगरी-उज्जैन-मध्ये विश्वप्रसिद्ध-महाकालेश्वर–मन्दिरे महाशिवरात्रेः विशेषायोजनानि क्रियन्ते। प्रातः ३ वादने विशेषः पञ्चामृत–अभिषेकः तथा भस्म–आरार्तिकी संपन्ना। देशस्य विभिन्नभागतः श्रद्धालवः भस्म–आरार्तिकीं द्रष्टुं आगतवन्तः। अनुमानं यत् अद्य १० लक्षातिरिक्ताः श्रद्धालवः दर्शनाय उज्जैनं आगच्छेयुः। महाशिवरात्रेः अवसरे बाबामहाकालस्य दर्शनार्थं मन्दिरेः द्वाराणि निरन्तरं ४४ होरापर्यन्तं उद्घटितानि भविष्यन्ति।
भगवान् शिवः अत्र भूतभावन–महाकाल–स्वरूपेण विराजमानः। द्वादश ज्योतिर्लिङ्गेषु एषः एकं एव दक्षिणमुखी–ज्योतिर्लिङ्गं अस्ति। प्रतिदिनं भस्मारोपण–परम्परा मन्दिरे विशेषं आध्यात्मिक–परिचयं ददाति। महाशिवरात्रौ सम्पूर्णं उज्जैनं नगरं शिवभक्तेः अमृतस्नानेन स्नातं इव दृश्यते। प्रदेशे सम्पूर्णे श्रद्धा, उल्लासः तथा परम्परायाः अद्भुतः संगमः दृश्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता