मुख्यमंत्रिणा रेखा गुप्तया अमरख महादेव मंदिरे पूजा-अर्चना कृता
नव दिल्ली, 15 फ़रवरीमासः (हि.स.)। महाशिवरात्रेः पावनावसरे रेखा गुप्ता नाम दिल्लीमुख्यमन्त्री उदयपुर नगरस्य अम्बेरीस्थिते प्राचीन अमरख महादेव मंदिर देवालये देवाधिदेवस्य महादेवस्य विधिवत् पूजाम् अकरोत्। मुख्यमन्त्री उक्तवती यत् एतद्धाम शताब्द्यः य
उदयपुर के अम्बेरी स्थित प्राचीन अमरख महादेव मंदिर में देवाधिदेव महादेव की पूजा-अर्चना करती मुख्यमंत्री रेखा गुप्ता


उदयपुर के अम्बेरी स्थित प्राचीन अमरख महादेव मंदिर में मुख्यमंत्री रेखा गुप्ता, कैबिनेट मंत्री आशीष सूद और रविंद्र इंद्राज के साथ


नव दिल्ली, 15 फ़रवरीमासः (हि.स.)।

महाशिवरात्रेः पावनावसरे रेखा गुप्ता नाम दिल्लीमुख्यमन्त्री उदयपुर नगरस्य अम्बेरीस्थिते प्राचीन अमरख महादेव मंदिर देवालये देवाधिदेवस्य महादेवस्य विधिवत् पूजाम् अकरोत्।

मुख्यमन्त्री उक्तवती यत् एतद्धाम शताब्द्यः यावत् तपसः वैराग्यस्य शिवचेतनायाश्च जीवंतं केन्द्रं वर्तते। सा स्वस्य सामाजिकमाध्यममञ्चे ‘एक्स’ इति प्रसिद्धे माध्यमे लेखं प्रकाशितवती यत् महाशिवरात्रेः एषः पावनः पर्व आत्मनः अन्तः शिवत्वस्य जागरणस्य सुवर्णावसरः अस्ति।

शिवः एव शून्यम् अस्ति, शिवः एव अनन्तम् अस्ति, शिवः एव सः आधारः अस्ति यतः सृष्टेः संतुलनस्य परिवर्तनस्य च प्रवाहः आरभ्यते। सा देवाधिदेवात् महादेवात् प्रार्थितवती यत् तस्य आशीर्वादः दिल्लीप्रदेशे समस्तदेशवासिषु च नित्यं वर्तताम्, तथा अस्मान् सर्वान् सेवायाः लोककल्याणस्य च मार्गे दृढतया स्थितुं शक्तिं प्रददातु।

अस्मिन् अवसरे आशीष सूद, रविंद्र इंद्राज, अनिल शर्मा च विधायकाः तथा भारतीय जनतादलीयराजस्थानप्रदेशस्य मान्यसदस्याः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार