फरीदाबादनगरम् - प्रधानमन्त्रिणः आत्मनिर्भर–भारत–दृष्ट्या: जीवन्तं उदाहरणं सूरजकुंड-शिल्पमहोत्सव: — प्रो.असीमघोष:
फरीदाबादनगरम्, १५ फरवरीमासः (हि.स.)। हरियाणा–राज्यस्य महामहिमः राज्यपालः असीमकुमारघोष: अवदत् यत् सूरजकुंड- अंताराष्ट्रिय-आत्मनिर्भर-शिल्प-महोत्सव: प्रधानमन्त्रिणः नरेन्द्र मोदिन: आत्मनिर्भर–भारत–दृष्टेः सुदृढं जीवन्तं च उदाहरणम् अस्ति। एषः महोत्सवः
अपणा घर में पत्नी सहित पगड़ी बंधवाने के बाद हरियाणा के राज्यपाल प्रो. असीम कुमार घोष व अन्य मंत्रीगण


फरीदाबादनगरम्, १५ फरवरीमासः (हि.स.)। हरियाणा–राज्यस्य महामहिमः राज्यपालः असीमकुमारघोष: अवदत् यत् सूरजकुंड- अंताराष्ट्रिय-आत्मनिर्भर-शिल्प-महोत्सव: प्रधानमन्त्रिणः नरेन्द्र मोदिन: आत्मनिर्भर–भारत–दृष्टेः सुदृढं जीवन्तं च उदाहरणम् अस्ति। एषः महोत्सवः “लोकल–टू–ग्लोबल” इति आत्मनिर्भर–भारत–मन्त्रेण प्रेरितः अस्ति। सूरजकुंड–मेलापक: अद्य एकं स्फूर्तिदायक: (वाइब्रेन्ट्) मञ्चत्वेन विकसितः, यत्र परम्परा नवाचारश्च संयुक्तरूपेण कार्यं कुरूतः।

महामहिमः राज्यपालः रविवासरे आयोजितस्य ३९ तमस्य सूरजकुंड–अन्ताराष्ट्रिय–आत्मनिर्भर–शिल्प–महोत्सवस्य समापनावसरे स्वं सम्बोधनं दत्तवान्। सः अवदत् यत् अस्मात् मेलापकात् एव स्थानीय–शिल्पकाराणां कौशलेन वैश्विक–स्तरे परिचयं प्राप्तम्। मुख्यमन्त्रिणः नायब–सिंह–सैनीन: नेतृत्वे राज्य–सर्वकार: कला–संस्कृत्योः प्रोत्साहने निरन्तरं सजगं कार्यं करोति।

समापन–समारोहात् पूर्वं राज्यपालः प्रो.असीम–कुमार–घोषः स्वधर्मपत्नी–श्रीमती–मित्रा–घोषया सह पर्यटन–विरासत–मन्त्रिणा डा.अरविन्द–कुमार–शर्मणा, कैबिनेट–मन्त्रिणा विपुल–गोयलेन च सह मेलापकावलोकनं कृतवान्। अवलोकन–समये आपणा–गृह–स्थले अतिथीनां हरियाणवी–उष्णीषै: स्वागतं कृतम्। तत्र महामहिमः राज्यपालः कला–संस्कृतिक्षेत्रे उल्लेखनीय-योगदानाय शिल्पकारान् विविध–पुरस्कारैः सम्मानितवान्।

सूरजकुंड–शिल्प–मेलापक: भारतीय–सभ्यता–संस्कृति–परम्पराया: तथा आत्मनिर्भर–भावनायाः सामूहिक–आकाङ्क्षायाः रम्यं प्रदर्शनम् इति निर्दिश्य सः अवदत् यत् एषः मेलाप: “विविधतायां एकता”–भावनां सुदृढीकरोति। देश–विदेशयोः आगतानां कारीगराणां, तन्तुवायानां, लोक–कलाकाराणां च कौशलं, दृढ–निश्चयः, सृजनशीलता च अत्र स्पष्टतया दृश्यते।

सः अवदत् यत् अस्मिन् वर्षे मिस्र–देशः चतुर्थवारं पार्टनर–नेशन–रूपेण सहभागितां कृतवान्, येन उभयोः सांस्कृतिक–सभ्यतासम्बन्धाः अधिकं सुदृढीकृताः। अस्मिन् एव वर्षे थीम–स्टेट–रूपेण उत्तर–प्रदेशः मेघालयश्च स्व-सजीवाः लोक–परम्पराः सांस्कृतिक–परम्परां च प्रदर्श्य मेलापके नूतनं आयामं दत्तवन्तौ। पञ्चाशदधिक–देशेभ्यः आगताः प्रायः अष्टशतं कलाकार–कारीगराः सहभागितां कृत्वा पूर्ववर्षाणां अपेक्षया मेलापकस्य वर्धमानां वैश्विक–प्रतिष्ठां सुदृढीकृतवन्तः।एषः मेलापक: पारम्परिक–शिल्प–संरक्षणे अन्ताराष्ट्रिय–सांस्कृतिक–सहयोगस्य प्रवर्धने महत्त्वपूर्णः सहायकः अस्ति। राज्यपालः अवदत् यत् सूरजकुंड–मेलापक: विश्वस्य संस्कृति–पर्यटन–मानचित्रे स्वां गभीरां छविं निरन्तरं स्थापयिष्यति। सः देशस्य शिल्पकारान् आह्वयन् अवदत् यत् भारतीय–कला–संस्कृत्योः उन्नतये सर्वे योगदानं कुर्वन्तु।

समापनावसरे सहकारिता–पर्यटन–मन्त्री डा.अरविन्द–कुमार–शर्मा राज्यपालस्य स्वागतं कृत्वा अवदत् यत् सूरजकुंड–मेलापक: केवलं प्रदर्शिनी न, अपि तु भारतस्य सांस्कृतिक–चेतनायाः उत्सवः अस्ति। अयं सः मञ्चः यत्र परम्परायाः आधुनिकतायाश्च सुन्दरः संगमः दृश्यते। अत्र प्रत्येकं कलाकृतिः केवलं वस्तु न भवति, अपि तु तस्या: पृष्ठे शिल्पिनः वंशेभ्यः आगता परम्परा, परिश्रमः, स्वप्नं परिचयश्च निहिताः सन्ति।

सः अवदत् यत् आत्मनिर्भर–शिल्प–महोत्सवः आत्मनिर्भरता–सुदृढीकरणे, निर्यात–सम्भावनावर्धने, स्थानीय–उत्पादानां वैश्विक–मञ्चे प्रतिष्ठापने च महत्त्वपूर्णां भूमिकां वहति। एतत् प्रमाणं यत् पारम्परिक–हस्तशिल्पेषु जनानां आकर्षणं विश्वासश्च निरन्तरं वर्धते। एषः मेलापक: सामान्य–जनानां शिल्पकाराणां च मध्ये सशक्त-सेतु-रूपेण कार्यं करोति।

अस्मिन् अवसरे पर्यटन–मन्त्री डा.अरविन्द–कुमार–शर्मणः धर्मपत्नी डा.रीटा–शर्मा, आरक्षी–आयुक्तः सतेन्द्र–कुमार–गुप्तः, हरियाणा–पर्यटन–निगमस्य प्रबन्ध–निदेशकः पार्थ–गुप्तः, उपायुक्तः आयुष–सिन्हा इत्येतै: सह अन्ये अधिकारिणः गणमान्याश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता