Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, १५ फरवरीमासः (हि.स.)। जवाहरकलाकेन्द्रस्य अलंकार–दीर्घायाम् राष्ट्रीय–स्तरीया भ्रमणशील–कला–प्रदर्शिनी ‘एका–द–वन’ सोमवासरात् आरभ्यते। त्रिदिवसीयायां अस्यां प्रदर्शिन्यां वरिष्ठ–कलाकारा-डॉ.बीना.एस.उन्नीकृष्णनेन निर्मिताः चित्रकृतयः प्रातः ११ वादनतः सायं ७ वादनपर्यन्तं प्रदर्शयिष्यन्ते।
डॉ.बीना गतपञ्चवर्षेषु ६८ एकल–चित्राणि निर्मितवती। तेषु चित्रेषु ६४ योगिनीनां माध्यमेन आदिशक्तेः विविधाः दिव्याभिव्यक्तयः समकालीन–कला–भाषायां प्रस्तुताः सन्ति। एताः कृतयः स्त्री–ऊर्जायाः कोमलतां, सृजनशीलतां, आत्मबोधं सन्तुलनं च विशेषतः रेखाङ्कयन्ति।
पूर्वं कोच्चि, कोयंबटूर, बेंगलुरु, मुंबई, भोपाल तथा अहमदाबाद–नगरेषु आयोजितानन्तरं, इदानीं एतत् एकल–प्रदर्शनं जयपुरनगरे आयोज्यते। प्रदर्शिन्या सह कलाकारया निर्मितं वृत्तचित्रं वाई 64: विस्कर्स आफ द अनसीन अपि प्रदर्शयिष्यते।
डॉ.बीना सामाजिक–उद्यमिनी तथा सांस्कृतिक–चिन्तिका अपि अस्ति। सा कंकाली ट्रस्ट फॉर आर्ट्स एंड कल्चरल इकोनॉमिक डेवलपमेंट–संस्थायाः संस्थापिका अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता