महाशिवरात्रौ विराटरामायणमंदिरे लघूनां सहस्त्रलिंगानां विहिता प्राणप्रतिष्ठा
पूर्वी चंपारणम्, 15 फ़रवरीमासः (हि.स.)। जिलान्तर्गतस्य चकिया केसरिया मार्गस्थिते कैथवलिया जानकीनगर क्षेत्रे निर्माणाधीने विश्वस्य विशालतमस्य विराटरामायणमन्दिरपरिसरे महाशिवरात्र्याः पावनावसरे लघु सहस्रशिवलिङ्गस्य तथा नन्दीभगवतः विधिवत् प्राणप्रतिष्
छोटे सहस्त्रलिंगम का प्राण प्रतिॆष्ठा करते आचार्य


पूर्वी चंपारणम्, 15 फ़रवरीमासः (हि.स.)।

जिलान्तर्गतस्य चकिया केसरिया मार्गस्थिते कैथवलिया जानकीनगर क्षेत्रे निर्माणाधीने विश्वस्य विशालतमस्य विराटरामायणमन्दिरपरिसरे महाशिवरात्र्याः पावनावसरे लघु सहस्रशिवलिङ्गस्य तथा नन्दीभगवतः विधिवत् प्राणप्रतिष्ठा कृता। अनेन अधुना श्रद्धालवः नियमितरूपेण जलाभिषेकं कर्तुं शक्नुवन्ति।

गत 7 जनवरी तिथौ मन्दिरस्य आधारपीठे 210 टन भारयुक्तं त्रयस्त्रिंशत् पाददीर्घं त्रयस्त्रिंशत् पादविस्तीर्णं च सहस्रशिवलिङ्गं स्थापितम् आसीत्। ततः आरभ्य बहवः श्रद्धालवः प्रतिदिनं दर्शनार्थम् आगच्छन्ति स्म, किन्तु निर्माणकार्यस्य प्रवृत्तत्वात् ते जलाभिषेकं कर्तुं न अशक्नुवन्। श्रद्धालूनां श्रद्धां सुविधां च दृष्ट्वा मन्दिरसमित्या परिसरे पोखरासमीपे लघु सहस्रशिवलिङ्गस्य नन्दीभगवतः च स्थापना कर्तुं निर्णयः कृतः।

प्राणप्रतिष्ठानुष्ठाने ग्रामपुरोहितः साधुतिवारी वैदिकविधिना आसीत्। आचार्यः भवनाथझा मन्त्रउच्चारणेन सह शिवपूजां सम्पन्नां कारितवान्। अस्मिन् अवसरि पण्डितः रामचन्द्रझाः, शशिनाथझाः, विपिनतिवारी, अशोकपाठकः च वैदिकमन्त्राणाम् उच्चारणं कृतवन्तः। सम्पूर्णे वातावरणे भक्तिमयः भावः व्याप्नोत्।

मन्दिरनिर्माणकार्यं कुर्वन्त्याः संस्थायाः अभियन्ता सम्बोधझा अवदत् यत् निर्माणाधीने मन्दिरे श्रद्धालूनां वर्धमाना भीड् कार्यं बाधते स्म। तस्मात् समित्या पृथक् स्थले लघु सहस्रशिवलिङ्गस्य स्थापना कृता, येन श्रद्धालवः सुलभतया जलाभिषेकं कर्तुं शक्नुवन्ति तथा मुख्यनिर्माणकार्यं अपि निर्विघ्नं प्रवर्तते।

अधुना श्रद्धालवः नवनिर्मितस्थले जलाभिषेकं कृत्वा स्वश्रद्धां समर्पयितुं शक्नुवन्ति, येन मन्दिरपरिसरे सम्मर्दभारोऽपि न्यूनः भविष्यति।

---------------

हिन्दुस्थान समाचार