Enter your Email Address to subscribe to our newsletters

आसनसोलः, 17 फ़रवरीमासः (हि.स.)। पश्चिमबङ्ग विधानसभानिर्वाचनम् २०२६ सम्बन्धे राजनीतिक गतिविधयः तीव्राः अभवन्। अस्य क्रमस्य अन्तर्गतं रानीगञ्जस्य प्रख्यात चिकित्सकः तथा वर्ष २०२१ विधानसभानिर्वाचने भारतीय जनता पार्टी प्रत्याशी आसीत् डॉ विजन मुखर्जी हरिशपुर ग्रामे जनसम्पर्क अभियानम् अकरोत्।उल्लेखनीयम् अस्ति यत् हरिशपुर ग्रामस्य निवासिनः वर्ष २०२१ निर्वाचने सामूहिकरूपेण मतदानस्य बहिष्कारं कृत्वा समग्र राज्यस्य ध्यानम् आकर्षितवन्तः। ग्रामीणानां आरोपः आसीत् यत् तेषां क्षेत्रं भूमिधंसनप्रभावितम् अस्ति तथा बहुवारं भूमेः धंसनघटनाभिः तेषां जीवनम् असुरक्षितम् अभवत्।
ग्रामीणानां अनुसारं ग्रामे भूमिधंसनस्य घटनाः निरन्तरं भवन्ति येन गृहेषु विदारणानि उत्पन्नानि सन्ति तथा जनाः भयपूर्ण वातावरणे जीवनं यापनं कर्तुं बाध्याः सन्ति। पुनर्वासस्य माग्ने ते बहुवारं प्रशासनम् प्रति निवेदनं कृतवन्तः किन्तु ठोसपदम् न गृहीतम् इति कारणेन तैः २०२१ निर्वाचने मतदानबहिष्कारः कृतः।
डॉ विजन मुखर्जी ग्रामे बैठकां कृत्वा जनानां समस्याः अशृणोत् तथा अवदत् यत् लोकतन्त्रे स्वस्य वाणीं उद्घोषयितुं सर्वाधिक प्रभावी माध्यमं मतदानम् अस्ति। निर्वाचनबहिष्कारः कस्यापि समस्यायाः स्थायी समाधानं न भवति। मतदानस्य माध्यमेन एव स्वमाग्नानां दृढता वर्धते।
तेन स्पष्टं कृतं यत् वर्तमानकाले राज्ये भारतीय जनता पार्टी समीपे प्रशासनिक अधिकाराः न सन्ति अतः ते प्रत्यक्षरूपेण समस्यायाः समाधानं कर्तुं न शक्नुवन्ति। तेन आश्वासनं दत्तं यत् यदि राज्ये भारतीय जनता पार्टी शासनं स्थापयिष्यति तर्हि हरिशपुरस्य भूमिधंसनप्रभावितजनानां पुनर्वासः प्राथमिकतया क्रियते।
तेन अपि उक्तं यत् ग्रामस्य स्थितिः गम्भीरा अस्ति तथा जनानां समस्याः वास्तविकाः सन्ति। बैठकाकाले ग्रामीणाः मुक्तरूपेण स्वसमस्याः निवेदितवन्तः तथा सुरक्षितजीवनम् स्थायी पुनर्वासं च इच्छन्ति इति अवदन्। केचन ग्रामीणाः आगामिनि निर्वाचने सहभागितां प्रति सकारात्मक चिन्तनं कर्तुम्अपि उक्तवन्तः।
अन्ते तेन उक्तं यत् ग्रामवासिनां सुरक्षा सर्वोपरि अस्ति तथा तेषां कृते सुरक्षित वातावरणस्य उपलब्धिकरणमेव तस्य उद्देश्यं अस्ति। आगामिदिनेषु हरिशपुरस्य प्रवृत्तिः निर्वाचनरणनीतौ महत्वपूर्णां भूमिकां निर्वक्ष्यति इति सम्भावना अस्ति। ---------------
हिन्दुस्थान समाचार