Enter your Email Address to subscribe to our newsletters

धर्मशाला, 17 फ़रवरीमासः (हि.स.)।
जिला काङ्गड़ा क्षेत्रे किशोरीणां सर्वाइकल अर्थात् गर्भाशयग्रीवा कर्करोगात् संरक्षणार्थं एचपीवी टीकाकरणस्य प्रवर्तनाय जिलास्तरीय समन्वय समितेः बैठकाऽयोजिता, यस्याः अध्यक्षतां उपायुक्तः हेमराज बैरवा कृतवान्।
उपायुक्तः उक्तवान् यत् २८ फरवरी दिने विद्यालयेषु आयोजितासु पीटीएम उपवेशनेषु एचपीवी टीकाकरण विषयः अनिवार्यतया चर्चायां समावेश्यताम्। तेन सम्बद्ध विभागान् निर्देशाः दत्ताः यत् पीटीएम माध्यमेन अभिभावकेभ्यः टीकाकरणस्य लाभाः प्रक्रिया सुरक्षा सम्बन्धित जानकारी सरलभाषया प्रदीयताम्, येन कापि भ्रान्तिः निवार्येत।
तेन सूचितं यत् जिला काङ्गड़ा मध्ये १४ ते १५ वर्ष आयुवर्गस्य कुलं १६५३३ बालिकाः चिन्हिताः सन्ति। स्वास्थ्य विभागेन जनपदे ७५ विभिन्न स्थलेषु टीकाकरण सत्राणि आयोजितानि भविष्यन्ति।
उपायुक्तः अवदत् यत् ८ ते १० सहस्र मूल्ययुक्ता एषा वैक्सीन पूर्णतया निःशुल्कं प्रदीयते तथा एषा सर्वाइकल कर्करोगनिवारणदिशि अतीव प्रभावी उपायः अस्ति। तेन सर्वान् अभिभावकान् विद्यालय प्रबन्धन समितीन् आङ्गनवाडी कार्यकर्त्रीः आशा कार्यकर्त्रीणां समुदायः प्रतिनिधीन् च आह्वानं कृतम् यत् ते अस्मिन् अभियाने सक्रिय सहयोगं ददतु तथा पात्र बालिकानां समये पूर्वपञ्जीकरणं सुनिश्चितं कुर्वन्तु।
तेन अपि उक्तं यत् १४ ते १५ वर्ष आयुवर्गस्य बालिकाभ्यः निर्दिष्टेषु शासकीय स्वास्थ्य संस्थानेषु एषः जीवनरक्षक टीकः निःशुल्कं प्रदास्यते।
हिन्दुस्थान समाचार