अद्य तमिलनाडुराज्यस्य अन्तरिम–वित्तविवरणम्– महत्वपूर्णाः घोषणाः भविष्यन्ति
चेन्नईनगरम्, १७ फरवरीमासः (हि.स.)। तमिलनाडु–विधानसभायां वर्षस्य २०२६–२७ अन्तरिम–वित्तीय–विवरणम् (बजट्) अद्य मङ्गलवासरे (१७ फरवरी) वित्त–मन्त्री थंगम: तेनारसु प्रस्तोष्यति। ततः अन्तरिम–कृषि-वित्तविवरणम् कृषि–मन्त्री एम.आर.के.पन्नीरसेल्वम प्रस्तोष्यत
File


चेन्नईनगरम्, १७ फरवरीमासः (हि.स.)। तमिलनाडु–विधानसभायां वर्षस्य २०२६–२७ अन्तरिम–वित्तीय–विवरणम् (बजट्) अद्य मङ्गलवासरे (१७ फरवरी) वित्त–मन्त्री थंगम: तेनारसु प्रस्तोष्यति। ततः अन्तरिम–कृषि-वित्तविवरणम् कृषि–मन्त्री एम.आर.के.पन्नीरसेल्वम प्रस्तोष्यति।

निर्वाचनीवर्षं सन्निकटं इत्यस्मात् अन्तरिम–वित्तविवरणे विविधा: शिथिलता: तथा नूतनाः घोषणाः अन्तर्भविष्यन्ति इति सम्भावना दृश्यते।

सामान्यतया प्रतिवर्षं फरवरी–मासस्य अन्तिमसप्ताहे वा मार्च–मासस्य प्रथमसप्ताहे वित्तविवरण–सत्रं आयोज्यते। किन्तु अस्मिन्नेव वर्षे विधानसभा–निर्वाचनस्य कारणात् अन्तरिम–वित्तविवरणम् प्रस्तुतं क्रियते।

अद्य प्रातः ९:३० वादने वित्त–मन्त्री थंगम: तेनारसु विधानसभायां अन्तरिम–वित्तविवरणं प्रस्तोष्यति। विवरणानुसार, एतस्मिन् सर्ववर्गस्य अपेक्षाः पूरयितुं शक्यन्ते एतादृशाः नूतनाः योजनाः घोष्यन्ते। विशेषतया स्त्रियः, कृषकाः, युवान:, लघु–व्यवसायिनः इत्यादिनां हेतु लाभकारी योजनाः सम्भाव्यन्ते।ततः कृषि–मन्त्री एम.आर.के. पन्नीरसेल्वम कृषकहिताय कृषिविवरणं प्रस्तोष्यति। तत्र कृषकाणां हिताय विविधा: शिथिलता: योजनाः च अन्तर्भवितुं शक्यन्ते।

वित्तविवरणस्य प्रस्तुतेः अनन्तरं विधानसभा–अध्यक्षः एम.अप्पावुं अध्यक्ष: कुर्वन् कार्य–सलाहकार–समितेः सभायां निर्णयं करिष्यति यत् वित्तविवरण–सत्रं कतिपय दिनानि सञ्चाल्यन्ते। विवरणानुसार वित्तविवरण–सत्रं शुक्रवासरम् (२० फरवरीमास:) पर्यन्तं सञ्चाल्यते।

वित्तविवरण–घोषणाः त्वरितं अनुमोदनाय तथा प्रमुख–योजनाः शीघ्रं क्रियान्विताय २३ फरवरीमासे तमिलनाडु मंत्रिमण्डल–सदस्य–सभा आयोज्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता