Enter your Email Address to subscribe to our newsletters

चेन्नई, 17 फ़रवरीमासः (हि.स.)।
तमिलनाडुराज्यस्य विधानसभायां ‘अंतरिमवित्तीयप्रस्तावः २०२६’ प्रस्तुतः। राज्यस्य वित्तमन्त्री थंगम तेननरसुः वित्तीयप्रस्तावप्रस्तुतिं कुर्वन् स्वभाषणम् आरब्धवान्। तमिलनाडुविधानसभायां सामान्यतया फरवरी मार्च मासयोः राज्यस्य वित्तीयप्रस्तावः प्रस्तूयते। अस्मिन् वर्षे विधानसभानिर्वाचनानि भविष्यन्ति, अतः अद्य अंतरिम बजट प्रस्तुतम्। निर्वाचनानन्तरं या सरकार सत्ता गृह्णीयात् सा एव पूर्णबजटं प्रस्तोष्यति।
वर्ष २०२६ तमे प्रथमविधानसभा सत्रस्य आरम्भः गतमासे २० जनवरी दिने राज्यपालस्य अभिभाषणेन अभवत्। तथापि तमिल थाई वंदना अनन्तरं राष्ट्रगानं न गायत इति आरोपं कृत्वा राज्यपालः आर एन रवि महोदयः स्वाभिभाषणस्य बहिष्कारं कृत्वा सदनात् निर्गतः। तथापि विधानसभाध्यक्षेन अप्पावु महोदयेन पठितं राज्यपालस्य तमिलभाषणं सदनस्य कार्यवृत्ते अभिलेखितम्।
अनन्तरं २२ तः २४ जनवरी पर्यन्तं राज्यपालस्य अभिभाषणस्य धन्यवादप्रस्तावे चर्चा अभवत् तथा मुख्यमन्त्री एम के स्टालिन महोदयः तस्य उत्तरं दत्तवान्। तेन सह विधानसभासत्रं समाप्तम्।
अस्मिन् क्रमे वित्तवर्ष २०२६–२०२७ कृते अंतरिमवित्तीयप्रस्तावं प्रस्तोतुं तमिलनाडुविधानसभा अद्य मङ्गलवासरे पुनः आहूता। प्रातः ९.३० वादने वित्तमन्त्री थंगम तेननरसुः अंतरिम बजट प्रस्तुतवान्।
---------------
हिन्दुस्थान समाचार