राजस्थानराज्ये द्विशत–बन्ध–तडागानां जीर्णोद्धाराय ३०० कोटि–रूप्यकाणां स्वीकृतिः
जयपुरनगरम्, १८ फरवरीमासः (हि.स.)। जलसंसाधनमन्त्री सुरेशसिंहरावत: बुधवासरे विधानसभायां अवदत् यत् मुख्यमन्त्रिणः भजनलालशर्मण: प्रयत्ने-वर्षे २०२६–२७ प्रथमचरणे प्रायः द्विशतं जीर्ण–सेतूनां तथा तडागानां जीर्णोद्धारार्थं ३०० कोटि–रूप्यकाणां स्वीकृतिः प्
फाइल


जयपुरनगरम्, १८ फरवरीमासः (हि.स.)। जलसंसाधनमन्त्री सुरेशसिंहरावत: बुधवासरे विधानसभायां अवदत् यत् मुख्यमन्त्रिणः भजनलालशर्मण: प्रयत्ने-वर्षे २०२६–२७ प्रथमचरणे प्रायः द्विशतं जीर्ण–सेतूनां तथा तडागानां जीर्णोद्धारार्थं ३०० कोटि–रूप्यकाणां स्वीकृतिः प्रदत्ता अस्ति।

प्रश्नकाले विधायकेन घनश्यामेन पृष्टानां पूरक–प्रश्नानाम् उत्तरं ददन् मन्त्री अवदत् यत् सर्वकारस्य उद्देश्यं जल–संरचनानां सुदृढीकरणेन सिञ्चन–क्षमताया: वर्धनं कर्तुं तथा जल–संरक्षणं सुदृढं कर्तुं अस्ति। मन्त्री सूचितवान् यत् टोडाभीम–क्षेत्रे बिशनसमंदसेयो: तथा तेन सम्बद्धाया: कुल्याया: निर्माण–कार्यं वर्षं २०२७ पर्यन्तं समापयितुं लक्ष्यं निश्चितम् अस्ति। अस्य कृते १२ अगस्त २०२५ दिनाङ्के प्रशासनिक–स्वीकृत्या सह २२९.६९ लक्ष–रूप्यकाणां वित्तीय–स्वीकृतिः निर्गता आसीत्।

सः अवदत् यत् ३० अगस्त २०२५ दिनाङ्के प्रथम–निविदा आमन्त्रिता, किन्तु कश्चिदपि बीडर: सहभागं न कृतवान्। ततः पुनः निविदा–प्रक्रिया अवलम्बिता, तथा २४ नवम्बर २०२५ दिनाङ्के तकनीकी–मूल्याङ्कनानन्तरं कार्यादेशः निर्गत्य कार्यारम्भः कृतः। लिखित–उत्तरे मन्त्री अवदत् यत् टोडाभीमे बिशन–समन्द–सेतो: कुल्या–जीर्णोद्धार–सम्बद्धा वित्तविवरण–घोषणा वर्षे २०२५–२६ अन्तर्गतं ४ फरवरी २०२६ दिनाङ्के कार्यादेशः पूर्वमेव निर्गतः अस्ति।

मन्त्री सुरेशसिंहरावत: अवदत् यत् राज्य–सर्वकारः प्रदेशे जल–संरचनानां संरक्षणाय तथा सुदृढीकरणाय चरणबद्धरीत्या कार्यं करोति; येन कृषकाणां सिञ्चन–सुविधायां सुधारः भविष्यति तथा जल–संकटात् शिथिलता लप्स्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता