असमसहमतेः अंतर्गते एतावता 31,604 वैदेशिकाः निष्कासिताः
गुवाहाटी, 18 फरवरीमासः (हि.स.)। असम राज्यात् विदेशीअनधिकृतप्रवेशकान् निष्कासयितुं सञ्चालितस्य आन्दोलनस्य परिणामस्वरूप हस्ताक्षरितस्य असमसहमतेः अनुसारं अद्यावधि ३१,६०४ विदेशिनः राज्यात् निष्कासिताः सन्ति। असमविधानसभायाः बजट्सत्रस्य तृतीये दिने बुधवा
असम विधानसभा। फाइल फोटो


गुवाहाटी, 18 फरवरीमासः (हि.स.)। असम राज्यात् विदेशीअनधिकृतप्रवेशकान् निष्कासयितुं सञ्चालितस्य आन्दोलनस्य परिणामस्वरूप हस्ताक्षरितस्य असमसहमतेः अनुसारं अद्यावधि ३१,६०४ विदेशिनः राज्यात् निष्कासिताः सन्ति। असमविधानसभायाः बजट्सत्रस्य तृतीये दिने बुधवासरे विधायकस्य रमेंद्र नारायण कलिता प्रश्नस्य उत्तरं दत्त्वा असमसमझौताकार्यान्वयनविभागस्य मन्त्री अतुल बोरा विधानसभायां एतां सूचना प्रदत्तवान्।

विदेशिनां परिचयनसम्बन्धे मन्त्रिणा उक्तं यत् राजनैतिकविभागस्य विवरणानुसारं असमसमझौतस्य अन्तर्गतं ३१ दिसम्बर २०२५ पर्यन्तं १,३७,१५२ जनाः १९७१ वर्षोत्तरसीमायाः अन्तर्गताः विदेशिनः इति परिचिताः, तथा ३३,४८५ जनाः १९६६–१९७१ कालावधौ आगताः विदेशिनः इति परिचिताः, ये च विदेशीन्यायाधिकरणेन विदेशी इति घोषिताः।

विदेशिनां निष्कासनविषये मन्त्रिणा उल्लिखितं यत् १९८६ वर्षात् अद्यपर्यन्तं ३१,६०४ विदेशिनः निष्कासिताः। तेषु १९८६ वर्षात् २०१३ वर्षस्य १२ मार्च पर्यन्तं २९,६६३ अवैधविदेशिनः ‘पुश बैक’ पद्धत्या निष्कासिताः। तेषु २८,७६५ नूतनअनधिकृतप्रवेशकाः विदेशिनः, ८९८ घोषितविदेशिनः च आसन्।

अपि च १३ मार्च २०१३ तः ३१ जनवरी २०२६ पर्यन्तं ४६८ अवैधविदेशिनः स्वदेशे ‘वापसी’ प्रक्रियया प्रेषिताः। तेषु ४५८ अभियुक्तविदेशिनः, १० घोषितविदेशिनः च सन्ति।

अतिरिक्ततया १ फरवरी २०२५ तः ३१ जनवरी २०२६ पर्यन्तं १४२१ अवैधविदेशिनः भारत सर्वकारो गृह मंत्रालय निर्देशानुसारं ‘सेंट बैक’ प्रक्रियया निष्कासिताः।

तथैव २० दिसंबर २०२५ तः ३१ जनवरी २०२६ पर्यन्तं ५१ घोषितविदेशिनः तथा एकः नूतनप्रवासी सहिताः समग्रतः ५२ अवैधविदेशिनः प्रवासनकानून १९५० अन्तर्गतं देशात् निष्कासिताः।-----

हिन्दुस्थान समाचार